________________
७६
कादम्बरी विडम्बयन्तः, शैवलपल्लवावलोमिवाम्बरसरसि प्रसारयन्तः, गगनावततैः पक्षपुटैः कदलोदलैरिव दिनकर-खरकर-निकर-परिखेदितान्याशामुखानि वीजयन्तः, वियति विसारिणी शष्पवीथीमिवारचयन्तः, सेन्द्रायुधमिवान्तरिक्षमादधाना विचरन्ति स्म।
____ कृताहाराश्च पुनः प्रतिनिवृत्त्यात्मकुलायावस्थितेभ्यः शावकेभ्यो विविधान् फलरसान् कलममञ्जरीविकारांश्च प्रहत-हरिण-रुधिरानुरक्त-शार्दूलनखकोटिपाटलेन चञ्चुपुटेन दत्त्वा दत्त्वा अवरोकृत-सर्वस्नेहेनासाधारणेन गुरुणाऽपत्यप्रेम्णा तस्मिन्नेव क्रोडान्तनिहिततनयाः क्षपाः क्षपयन्ति स्म ।
दिवसकरेत्यादिः । गगनतलम् =आकाशतलं, दिवसकरस्य (सूर्यस्य ) यो रथः ( स्यन्दनः ), तस्य ये तुरगाः ( अश्वाः ), तेषां प्रभया ( हरित कान्त्या ), अनुलिप्तम् ( अनुलेपयुक्तम् ) इव, प्रदर्शयन्तः = प्रदर्शनं कुर्वन्तः । उत्प्रेक्षाऽलङ्कारः।
सञ्चारिणीमिति । सञ्चारिणों = सञ्चरणशीलां, मरकतस्थली = हरिन्मणिभुवं, "गारुत्मतं मरकतमश्मगर्भो हरिन्मणिः।" इत्यमरः । विडम्बयन्त इव = अनुकुर्वन्त इव । उत्प्रेक्षा। शैवलेत्यादिः । अम्बरसरसि = अम्बरम् ( आकाशम् ) एव सर: ( कासारः ), तस्मिन् । रूपकम् । शैवलपल्लवावली = शंवलस्य ( शेवलस्य ) या पल्लवाऽऽवली ( किसलयपङ्क्तिः ), ताम् इव, प्रसारयन्त:विस्तारयन्तः, इव । अत्र रूपकमुत्प्रेक्षा चेति द्वयोरङ्गाङ्गिभावेन सङ्करः ।
गगनाऽवततैरिति । कदलीदल:= रम्भापत्त्र:, इव, नीलत्वसाम्यादिति भावः । गगनाऽवतत:= गगने (आकाशे ) अवततः । विस्तृतः ), पक्षपुट:= पत्त्रपुटः, दिनकरखरकरनिकरपरिखेदितानि = दिनकरस्य ( सूर्यस्य ) खरा: ( तीक्ष्णाः ) ये कराः ( किरणा: ), तेषां निकरः ( समूहैः ) परिखेदितानि (परिखेदं गमितानि, संतापेनेति शेषः ) तादृशानि आशामुखानि = दिग्वदनानि, वीजयन्तः = व्यजनवातपात्राणि कुर्वन्तः । वियतीति । वियति = आकाशे, विसारिणों = विसरणशीलां, शष्पवीथी = बालतृणपङ्क्तिम्, आरचयन्तः = कुर्वन्त इव, उत्प्रेक्षाऽलङ्कारः ।
सेन्द्रायुधमिति। अन्तरिक्षम् = आकाशं, सेन्द्रायुधं = शक्रधनुः सहितम्, इव, "इन्द्रायचं शक्रधनुः" इत्यमरः । आदधानाः = कुर्वाणाः, अनेकवर्णस्वसमूहेनेति भावः । विचरन्ति स्म = व्यचरन्, उत्प्रेक्षा । ते= शुकशकुनयः, पूर्वस्थं पदमिदं कर्तृत्वेनान्वितं भवतीति बोद्धव्यम् ।
कृताहारा इति । कृताऽऽहारा:= कृतः (विहितः ) आहारः ( भक्षणम् ) यस्ते। शुकशकुनय इति शेषः । पुनः = भूयः, प्रतिनिवर्त्य = परावृत्य, आत्मकुलायस्थितेभ्यः = आत्मनः ( स्वस्य ) ये कुलायाः ( नीडाः ) तेषु स्थितेभ्यः (विद्यमानेभ्यः ), शावकेभ्यः= शिशुभ्यः, 'पोतः पाकोमको डिम्मः पृथुक: शावक: शिशुः । “इत्यमरः विविधान् = विविधा विधा (प्रकारः) येषां, तान् । अनेकप्रकारानित्यर्थः। फलरसान् = सस्यनिर्यासान्, कलममञ्जरीविकारान् = कलमानां (शालिधान्यानाम् ) या मञ्जयः ( वल्लयः) तासां विकारान् (परिपाकविशेषण परिणतान्कणान् )।
गिरती हुई आकाशगङ्गाकी कमलिनियोंकी शङ्काको उत्पन्न करते हुए, आकाशतलको सूर्यके रथके घोड़ोंकी कान्तिसे लिप्तके सदृश दिखलाते हुए, चलती फिरती मरकतभूमि (पन्नेकी जमीन) का अनुकरण करते हुए, आकाशरूपी-तालाबमें मानों शैवालके पल्लवोंकी कतारको फैलाते हुए, आकाशमें विस्तृत पंखोंसे मानों केलेके पत्तोंसे सूर्यके तीक्ष्ण किरणसमूहसे पीड़ित दिशामुखोंको पंखा झलते हुए, मानों आकाशमें फैले हुए बालतॄणों(घास ) के मार्गकी रचना करते हुए मानों आकाशको इन्द्रधनुसे युक्त बनाते हुए विचरण करते थे। आहार कर फिर लौटकर अपने घोंसलोंमें स्थित बच्चों को मारे गये मृगके रुधिरसे लाल व्याघ्रनखके अग्रभाग (नोक) के समान गुलाबी अपने चञ्चुपुटसे अनेक फलोंके रसोंको और शालिधान्यकी मारियोंक विकारोंको देकर सबके स्नेह को मात (कम ) करनेवाले असाधारण महान् सन्तानस्नेहसे उसी पेड़में भुजान्तरोंमें बच्चोंको रखकर रातोंको बिताते थे।