________________
कथामुखे-पम्पासरोवरवर्णनम् दशरथसुत-बाण-निपातितो योजनबाहोर्बाहुरगस्त्य-प्रसादनागतनहुषाजगर-कायशङ्कामकरोदृषिजनस्य । जनकतनया भर्ना विरहविनोदनार्थमुटजाभ्यन्तरलिखिता यत्र रामनिवासदर्शनोत्सुका पुनरिव धरणीतलादुल्लसन्ती वनचरेरद्याप्यालोक्यते ।
तस्य च सम्प्रत्यपि प्रकटोपलक्ष्यमाण-पूर्ववृत्तान्तस्यागस्त्याश्रमस्य नातिदूरे जलनिधिपानप्रकुपित-वरुणप्रोत्साहितेन अगस्त्यमत्सरातदाश्रमसमीपवर्त्यपर इव वेधसा जलनिधिरुत्पाकबन्धेन, ग्रस्तो, चन्द्रसूर्यपक्षे- कवलितो, रामलक्ष्मणपक्षे-गृहीतौ । तादृशौ रामलक्ष्मणौ, समं = युगपत्, महत् = प्रचुरं, त्रिभुवन मयंत्रिभुवनस्य ( लोकत्रयस्य ) मयं ( मोतिम् ) चक्रतुः = कृतवन्तौ ।
अत्यायतश्चेति । यस्मिन् = यत्र, दशरथसुतशरनिपातितः = दशरथसुतस्य ( रामचन्द्रस्य ) शराः ( बाणा: ) तै: निपातितः ( छित्वाऽधःपातित: ), योजनबाहो: = क्रोशचतुष्टयविस्तृतभुजस्य, दनुकबन्धस्येति भावः। बाहुः = भुजः । ऋषिजनस्य = मुनिजनस्य, अगस्त्येत्यादि:= अगस्त्यस्य(कुम्भसंभवस्य ऋषेः, सर्पो भवेति नहुषस्य शप्तुरिति भावः ) प्रसादनं (प्रसन्नीकरणम् )' तदर्थम् आगतः ( प्राप्तः ) यो नाहुष: ( नहुषसम्बन्धी ) अजगरकाय: ( वाहसशरीरम् ) तस्य शङ्काम् ( सन्देहम् ) अकरोत् = कृतवान् । “अजगरे शयुर्वाहस इत्युमो" इत्यमरः । अत्र दनुकबन्धबाही नहुषस्याऽजगरकायशङ्कया भ्रान्तिमदलङ्कारः । तल्लक्षणं यया साहित्यदर्पणे-“साम्यादतस्मिस्तबुद्धिभ्रान्तिमान्प्रतिमोत्थितः ।" इति ।
जनकतनयेति । यत्र = आश्रमपदे । जनकतनया = सीता, म; = पत्या, रामचन्द्रेणेति भावः । विरहविनोदनाऽयं =विरहस्य (वियोगस्य ) विनोदनाऽर्थम् ( निवारणाऽर्थम् )। उटजाऽभ्यन्तरलिखिता = उटजस्य ( पर्णशालाया: ) अभ्यन्तरे ( मध्ये ) लिखिता ( चित्रीकृता सती ), रामनिवासदर्शनोत्सुका = रामस्य ( रामचन्द्र स्य ) निवासः ( वासस्थानम् ) तस्य दर्शनं ( विलोकनम् ), तस्मिन् उत्सुका ( उत्कण्ठिता ) सती पुनः = भूयः, धरणोतलात् धरण्या: ( भूमेः ) तलात् ( अधोमागात् ) पातालादिति भावः । "ऊध: स्वरूपयोरस्त्री तलम्" इत्यमरः । उल्लसन्ती इव = उद्दीप्यमाना इव, वनचरैः= किरातः, अद्य अपि = अधुना अपि, आलोक्यते = दृश्यते । अत्र पुनः पदेन सीता यथा पुरा यज्ञभूमिकर्षणसमये पातालादुत्थिता, लोकापवादभोतेन रामेण पुनः सोताशुद्धिनिश्चयाथं समायामायो. जिता, तस्या भूयो भूतल प्रवेशः, रामनिवासदर्शनोत्कण्ठया पुनरपि उल्लसन्तीव आलोक्यत इत्यत्र उत्प्रेक्षाऽलङ्कारः ।
तस्य = पूर्वोक्तस्य, सम्प्रति अपि = अधुना अपि, प्रकटोपलक्ष्यमाणेत्यादिः = प्रकटम् ( व्यक्त यथा तथा ) उपलक्ष्यमाणः ( ज्ञायमानः ) पूर्ववृत्तान्तः ( प्राचीनोदन्तः ) यस्य, तस्य । अगस्त्याश्रमस्य = अगस्त्यावासस्थानस्य । नाऽतिदूरे = निकट एव, जलनिधीत्यादि:= जलनिघेः ( समुद्रस्य) पानं (धयनम् ) तेन हेतुना प्रकुपितः ( कोपं प्रापितः ) यः वरुणः ( प्रचेताः) तेन प्रोत्साहितेन = प्रोत्साहं प्रापितेन, वेधसा = ब्रह्मदेवेन, अगस्त्यमत्सरात् = अगस्त्यशुमद्वेषात्, अतः अपरः =अन्यः, जलनिधिः इव = समुद्र इव, “पम्पाभिधानं पद्मसर" इति पदद्वयेन सम्बन्धः, एवं परत्रापि । उत्प्रेक्षा
दिया था। जिसमें रामचन्द्रजीके बाणसे गिराया गया योजनबाहु ( चारकोस तक लम्बे बाहुवाले ) कबन्धके बाहुने ऋषियोंको अगस्त्यको प्रसन्न करने के लिए नहुषके अजगरके शरीरकी शङ्का उत्पन्न कर दी। जहाँ पति (राम) से विरहको हटानेके लिए पर्णशालाके भीतर चित्रित सीता आज भी वनचरोंसे मानों फिर भी रामके निवासस्थल देखने के लिए उत्कण्ठित होकर भूतल ( पाताल ) से निकलती हुई सी दिखाई पड़ती है।
इस समय भी जिसके पूर्व वृत्तान्त स्पष्ट रूपसे देखे जाते हैं ऐसे अगस्त्यके आश्रमसे कुछ ही दूरपर मानी समुद्रके पानसे क्रुद्ध वरुणसे उत्साहित ब्रह्माजीसे उत्पन्न अगस्त्यके मात्सर्यसे उनके आश्रमके समीप ही दूसरे