________________
कथामुखे–विन्ध्याटवीवर्णनम् कामिनीव चन्दन-मृगमदपरिमलवाहिनी रुचिरागुरु-तिलकभूषिता च, सोत्कण्ठेव विविधपल्लवानिलवीजिता समदना च, बालग्रीवेव व्याघ्रनखपङ्क्तिमण्डिता गण्डकाभरणा च, पानभूमिरिव प्रकटित-मधुकोश-शता प्रकीर्णविविधाकुसुमा च, कचित् प्रलयवेलेव महावराह-दंष्ट्रापार्वतो, इव, स्थाणुसङ्गता = स्थाणुना (शिवेन ) सङ्गता ( सहिता ), "स्थाणू रुद्र उमापतिः" इत्यमरः । मृगपतिसेविता = मृगपतिना ( सिंहेन ) सेविता ( आधिता ) च । वाहनभावेनेति शेषः । विन्ध्याटवीपक्षे-स्थाणुभि: ( शाखापत्त्ररहिततरुभिः) सेविता, “स्थाणु वा ना ध्रुवः शङ्कः" इत्यमरः । मृगपतिभिः ( सिंहैः ) सेविता च। जानको = सीता, इव, प्रसूतकुशलवा = प्रसूतौ ( उत्पादितौ ) कुशलवौ पुत्रौ यया सा। निशाचरपरिगृहीता = निशाचरेण ( राक्षसेन रावणेनेति भावः ) परिगृहोता ( ग्रहणकर्मीकृता ) च, विन्ध्याऽटवीपक्षे—प्रसूताः ( जनिता: ) कुशानां (दर्भाणाम् ) लवाः ( लेशा: ) यस्यां सा। "स्त्रियां मात्रा त्रुटी पुंसि लवलेशकणाऽणवः ।" इत्यमरः । निशाचरः ( रात्रिभ्रमणशीलरुलूकादिभिश्च ) परिगृहीता ( स्वीकृता ) च । कामिनी = शृङ्गारनायिका इव, चन्दनमृगमदपरिमलवाहिनी-चन्दनस्य ( मलयजद्रवस्य ) मृगमदस्य ( कस्तूर्याः ) च यः परिमल: ( सौरभम् ), तं वहति (धारयति ) इति । रुचिराऽगुरुतिलकभूषिता = रुचिरः ( मनोहर: ) यः अगुरु: ( कृष्णाऽगुरुः ) तस्य तिलकेन (विशेषकेण ) भूषिता ( अलङ्कृता ), च । विन्ध्याऽटवीपक्षे–रुचिराः ( सुन्दराः ) ये अगुरवः (कृष्णाऽगुरवः ) तिलका: (क्षुरकाः ) तैर्भूषिता । "तिलकः क्षुरकः श्रीमान्" इत्यमरः । सोत्कण्ठा = उत्कण्ठया ( उत्सुकतया, प्रियसमागम इति शेषः ) सहिता तादृशी नायिका इव, विविधपल्लवाऽनिलवीजिता-विविधानि (अनेकप्रकाराणि) यानि पल्लवानि ( किसलयानि ) तेषाम् अनिल: ( वायुः ) तेन वीजिता (स्पर्शीकृता), समदना = मदनेन ( कामावेशेन ) सहिता ( युक्ता)। विन्ध्याअटवीपणे-समदना - मदनैः (पिण्डीतकवृक्षः) सहिता, "पिण्डीतको मरु वक: श्वसनः करहाटकः । शल्यश्च मदने" इत्यमरः। बालग्रीवा = बाल: ( स्तनन्धय: ), तस्य ग्रीवा ( कन्धरा ) इव, व्याघ्रनखपङ्क्तिमण्डिता = व्याघस्य ( शार्दूलस्य ) नखपङ्क्तिः ( नखराऽऽवलि: ), तया मण्डिता ( भूषिता ), देवोत्पातनिवारणार्थमिति शेषः । गण्डकाऽऽभरणा = गण्डक (गण्डस्थलपर्यन्तवति ग्रीवाभूषणम् ) आभरणं ( भूषणम् ) यस्यां सा । विन्ध्याऽटवीपक्षे-व्याघ्राः ( शार्दूला: ) तेषां नखपङ्क्तिभिः (नखराऽऽवलिभिः ) मण्डिता । गण्डकाभरणा = गण्डकाः ( खड़गा: ) एव आभरणानि ( भूषणानि ) यस्यां सा। गण्डके खड्गखड्गिनौ” इत्यमरः । पानभूमिः = मद्यपानभूः, इव, प्रकटितमधुकोशशता = प्रकटितम् ( आविष्कृतम् ) मधुकोशानां ( मद्यपानपात्राणाम् ) शतं (बहुसंख्या ) यस्यां सा। प्रकीर्णविविधकुसुमा = प्रकीर्णानि ( विक्षिप्तानि ) विविधानि ( अनेकप्रकाराणि ) कुसुमानि (पुष्पाणि ) यस्यां, सा च । विन्ध्याऽटवीपक्षे—प्रकटितं ( प्रकाशितम् ) मधुकोशानां ( माक्षिकाश्रयाणाम् ) शतं ( बहुसंख्या ) यस्यां सा।
क्वचित् = कुत्रचित् । प्रलयवेला =क्षयसमयः, इव । महावराहेत्यादिः = महावराहस्य वह स्थाणु ( शाखा और पत्तेसे रहित अर्थात् ढूंठे) वृक्षोंसे संयुक्त है और सिंहोंसे सेवित है। जैसे सीताजी कुश और लवको पैदा करनेवाली हैं और निशाचर ( राक्षस अर्थात् रावण ) से परिगृहीत है वैसे ही वह कुशलवों अर्थात् कुशोंके टुकड़ोंको उत्पन्न करनेवाली और निशाचरों ( रातमें घूमनेवाले उल्लू आदियों) से युक्त है। जैसे शृङ्गारनायिका चन्दनरस, और कस्तूरीके सुगन्धको धारण करती है सुन्दर अनुरुके तिलकसे भूपित होतो है वैसे ही वह चन्दन और कस्तूरीके सुगन्धको धारण करती है और सुन्दर अगुरु और तिलक वृक्षोंसे भूषित है। जैसे पतिमें उत्कण्ठा रखनेवाली स्त्री अनेक पल्लवोंकी हवासे वीजित होती हैं (झली जाती है ) और मदन( कामावेश ) से युक्त होती है वैसे ही वह अनेक पल्लवोंकी हवासे वीजित होती है और मदन वृक्षोंसे युक्त है। जैसे बालककी ग्रीवा बाधकी नखपक्तिसे युक्त और गण्डक ( कपोल तक रहनेवाले भूषण ) से अलडकृत होती है वैसे ही वह (विन्ध्याऽटवी) बाघोंकी नखपङक्तिसे युक्त और गैड़ोंसे अलकृत है। जैसे मद्यपानकी भूमि सैकड़ों