________________
५७
कथामुखे – विन्ध्याटवीवर्णनम्
गन्धिनान्धजारिता, नख-मुख - लग्नेभकुम्भ- मुक्ताफल-लुब्धैः शबरसेनापतिभिरभिहन्यमानकेशरिशता, प्रेताधिपनगरीव सदासन्निहितमृत्यु भीषणा महिषाधिष्ठिता च, समरोद्यतपताकिनीव बाणासनारोपित शिलीमुखा विमुक्त-सिंहनादा च, कात्यायनीव प्रचलितखड्गभीषणा रक्तचन्दनालङ्कृता च, कर्णीसुतकथेव सन्निहित- विपुलाचला शशोपगता च कल्पान्तप्रदोषसन्ध्येव
उन्मदेत्यादिः = उन्मदा ( उत्कटमदा: ) ये मातङ्गाः ( गजाः), तेषां कपोलस्थलानि ( गण्डप्रदेशा: ), तेभ्यो गलितं ( पतितम् ) यत् सलिलं ( मदजलम् ) तेन सिक्तम् ( उक्षितम् ), तेन इव, अत एव मदगन्धिना = मदगन्धयुक्तेन तादृशेन एलालतावनेन = एलालतानां ( बहुलावल्लीनाम् ) वनेन ( विपिनेन ) अनवरतं = निरन्तरम्, अन्धकारिता= श्यामीकृता अत्रोत्प्रेक्षाऽलङ्कारः ।
|| नखमुखेत्यादिः = नखानां ( नखराणाम् ) मुखेषु ( अग्रभागेषु ) लग्नानि ( सम्बद्धानि ) यानि इकुम्भमुक्ताफलानि ( गजमस्तकपिण्डमौक्तिकानि ) तेषु लुब्ध: ( लोलुपैः ), शबरसेनापतिभिः = म्लेच्छभेदसैन्यस्वामिभिः, अभिहन्यमानकेसरिशता = अभिहन्यमानं ( व्यापाद्यमानम् ) केशरिशतं ( सिंह समूहः ) यस्यां सा । प्रेताऽधिपनगरी इव = प्रेताऽधिपस्य ( यमराजस्य ) नगरी इव ( पुरी इव ), सदासन्निहित मृत्युभीषणा = सदा ( सर्वदा ) सन्निहित: ( निकटस्थ : ) यो मृत्यु: ( मरणं ), तेन, भीषणा ( भयङ्करी), महिषाऽधिष्ठिता = महिषेण ( प्रेताऽधिपवाहनेन, लुलायेन वा, जातावेकवचनम् ) अधिष्ठिता ( कृतस्थितिः ) "विन्ध्याटवी" इत्यस्य विशेषणम्, एवं परत्राऽपि । " लुलायो महिषो वाहद्विषत्कासरसैरिभाः" इत्यमरः । उपमालङ्कारः । समरोद्यतपताकिनी = समरे ( युद्धे ) उद्यता ( तत्परा ) पताकिनी ( सेना ), इव, बाणाऽऽसनाऽऽरोपितशिलीमुखा = बाणाऽसनेषु ( कार्मुकेषु ) आरोपिताः (स्थापिताः ) शिलीमुखा: ( बाणा: ) यया सा । विन्ध्याऽटवीपक्षे --- बाणासु ( नीलझिण्टीषु ) असनेषु ( सर्जकेषु ) आरोपिताः ( स्थापिताः ) शिलीमुखा: ( भ्रमराः ) यस्यां सा । " बाणा तु बाणमूले स्त्री नीलझिण्टयां पुनर्द्वयोः ।" इति मेदिनी "अथो पीतसालके । सर्जकाऽसनबन्धूकपुष्प प्रियकजीवकाः ।" इत्यमरः । विमुक्तसिंहनादा = विमुक्तः ( त्यक्तः ) सिंहनादः ( सिंहस्येव शब्द:, क्ष्वेडा इति भाव: ) यया सा " क्ष्वेडा तु सिंहनादः स्या" दित्यमरः । विन्ध्याटवीपक्षेविमुक्त: ( त्यक्तः ) सिंहै: ( केसरिभिः ) नादः ( गर्जनध्वनिः ) यस्यां सा । कात्यायनी इव = = दुर्गा इव, प्रचलितखङ्गभीषणा - प्रचलित: ( संचरित : ) यः खङ्गः ( करवा ?: तेन भीषणा ( भयङ्करी), रक्तचन्दनाऽलङ्कृता च= रक्तम् ( रुधिरम् ) एव यत् चन्दनं ( श्रीखण्डद्रवः ) तेन अलङ्कृता ( भूषिता ) च । विन्ध्याऽटवीपक्षे – प्रचलिताः ( सवरिता: ) ये खड्गा: ( गण्डकाः ) तैः भोषणा ‘“गण्डके खड्गखड्गिनौ” इत्यमरः । रक्तचन्दनाऽलङ्कृता = रक्तचन्दन : ( पत्त्राऽङ्गः ) अलङ्कृता ( भूषिता ) च । " तिलपर्णी तु पत्त्राऽङ्गं रञ्जनं रक्तचन्दनम् ।" इत्यमरः । कर्णीसुतकथा = कर्णीसुतस्य ( चौर्यकलाप्रवर्तकस्य ) कथा ( उदन्तः ) इव सन्निहितविपुलाचला = सन्निहितो ( समीप
समान लतामण्डपोंसे शोभित, उत्कट मदवाले हाथियोंके गण्डस्थलोंसे गिरे हुए जलसे लगातार सींचे हुए-से अतएव मदके गन्धवाले इलायचीके लतावनसे अन्धकारयुक्त, सिंहोंके नाखूनों के अग्रभाग ( नोक ) में लगे हुए हाथियों के मस्तकपिण्डों से निकले हुए मोतियों में लुब्ध शवरसेनापतियोंसे जहाँपर सैकड़ों सिंह मारे जाते हैं, यमराजकी पुरीकी समान हमेशा रहनेवाले मृत्युसे भयङ्कर, महिष ( यमराजके वाहन ) से, विन्ध्याटवीपक्षमें आरण्यक भैंसोंसे अधिष्ठित है । जैसे युद्ध में उद्यत सेना बाणासन ( धनुष ) पर वाण चढ़ाकर सिंहनाद करती है वैसे ही वह विन्ध्यपर्वत भूमि भी बाण और असन ( सर्ज ) वृक्षोंपर रहे हुए शिलीमुखों ( भौंरो ) वाली सिंहों के नाद( शब्द ) से युक्त है । प्रचलित खड्ग (तलवार) से भीषण और रक्तरूप चन्दनसे अलङ्कृत दुर्गाकी सदृश, प्रचलित खड्गों (गैड़ों) से भयङ्कर और रक्तचन्दन के वृक्षोंसे अलङ्कृत है। जैसे कणसुत ( चौर्य कला के प्रवर्तक) की कथा में विपुल और अचल नामके मित्र साथमें रहते हैं और शश नामका प्रधानमन्त्री है वैसे ही जिसमें विपुल (विशाल ) अचल (पर्वत) निकट हैं, और जो शशों ( खरगोशों) से युक्त है । जैसे प्रलयकालकी