________________
५१
कथामुखे-सभामण्डपगमनम् अविरलविप्रकीर्णेन विमल-मणिकुट्टिम-गगनतलतारागणेनेव कुसुमोपहारेण निरन्तरनिचितम्, उत्कीर्णशालभञ्जिकानिवहेन मन्निहितगृहदेवतेनेव गन्धसलिल क्षालितेन कलधौतमयेन स्तम्भसञ्चयेन विराजमानम्, अतिबहलागुरु-धूप-परिमलम्, अखिलविगलित-जलनिवह-धवल-जलधरशकलानुकारिणा कुसुमामोदवासित-प्रच्छदपटेन, पट्टोपधानाध्यासितशिरोधाम्ना मणिमयप्रतिपादुकाप्रतिष्ठितपादेन पार्श्वस्थ-रलपादपोठेन तुहिनशिलातल-सदृशेन शयनेन सनाथीकृतवैदिकं भुक्त्वास्थानमण्डपमयासीत्।।
अतिमुरभिणा = अतिसुगन्धयक्तेन, मृगनाभिपरिगतेन = कस्तुरोव्याप्तेन, आमोदिना = अतिसुगन्धयुक्तेन, चन्दनवारिणा = मलयजजलेन, सिक्तशिशिरमणिभूमि = सिक्ता ( उक्षिता ) अतएव शिशिरा (शीतला ) या मणिभूमिः ( रत्ननिबद्धा भ: ) यस्मिम्तम् । "आस्थानमण्डपम्" इत्यस्य विशेषणमेव मन्यत्रापि । "अयासीत्" इति क्रियापदेन सम्बन्धः । अविरलविप्रकोणेन = अविरलं ( घनं यथा तथा ) विप्रकीर्णन ( विक्षिप्तेन ), विमलेन्यादि: = विमलमणानां ( निर्मलरत्नानाम् ) या कुट्टिमं (निबद्धा भू:) तत्र गगनतलतारागणेन (कागतलनक्षत्रसमूहेन ) इव, कुसुमोपहारेण = पुष्पसमूहेन, निरन्तरनिचितं = निरन्तरं ( सन्ततम् ) निचितम् (व्यातम् ), उपमाऽलङ्कारः । उत्कीर्णशालमञ्जिकानिवहेन % उत्कीर्णः ( उत्कीर्य कृतः ) शालमञ्जिकानां (पाञ्चालिकानाम् ) निवहः ( समूहः ) यस्मिस्तम् । सन्निहितगृहदेवतेन = सन्निहिताः ( समीपस्थिताः ) गृहदेवता: ( गेहदेव्यः ) यस्मिंस्तेन, इव । गन्धसलिलक्षालितेन = गन्धसलिलेन (सुगन्धयुक्तजलेन ) क्षालितेन (धौतेन )। कलधौतमयेन = सुवर्णरचितेन, "कलधौतं रूप्यहेम्नोः' इत्यमरः । स्तम्भसञ्चयेन -स्थूणासमूहेन, विराजमान = शोममानम् । अत्र उत्प्रेक्षाऽलङ्कारः । अतिबहलाऽगुरुधूपपरिमलम् = अतिबहल: ( अतिप्रचुरः ) अगुरुधूपानां ( कृष्णाऽगुरुधुपानाम् ) परिमल: ( सौरभम् ) यस्मिस्तम् । अखिलेति० = अखिल: ( समस्तः ) विलितः ( निगतः ) जलनिवहः ( सलिलसमूहः ) यस्मात् सः, अतएव धवल: ( शुभ्रः ) यो जलधरः (मेघः), तस्य शकलं (खण्डम्) तत् अनुकरोतोति, "शयनेन' इत्यस्य विशेषणमेवं परत्राऽपि, तेन । कुमुमाऽऽमोद० = कुसुमानां ( पुष्पाणाम् ) य आमोदः ( सौरभम् ) तेन वासितः (भावित: ) प्रच्छदपट: ( आस्तरणवस्त्रम् ) यस्मिस्तेन । एट्रोपधानाऽध्यासितशिरोधाम्ना = पट्टस्य (क्षौमवस्त्रस्य ) यत् उपधानम् ( उपबहः ) तेन अध्यासित: ( अधिष्ठित: J शिरोभागः ( मस्तकदेश: ) यस्मिस्तत्, तेन । "उपधानं तृपबहः" इत्यमरः । मणिमयेत्यादिः = मणिमय्यः (रत्नप्रचुराः ) याः प्रतिपादुका: (आधारपीठानि ) तासु प्रतिष्ठिताः ( संविद्यमानाः ) पादाः ( पर्यङ्कचरणा: ) यस्मिस्तेन । पार्श्वस्थरत्नपादपीठेन = पार्श्वस्थं (समीपस्थम् ) रत्नमयं ( मणिप्रचुरम् ) यत् पादपीठं (चरणन्यासस्थानम् ) तेन । तुहिनशिलातलसदृशेन = तुहिनशिलातलेन (हिमप्रस्तरतलेन ) सदृशं (तुल्यम् ) तेन । तादृशेन शयनेन ( शय्यया), सनाथीकृतवेदिक = सनाथीकृता ( सहिता) वेदिका ( परिष्कृतभूमिः ) यस्मिस्तत् तादृशम् आस्थानमण्डपं = सभामण्डपं, भुक्त्वा = भोजनं कृत्वा, अयासीत् = प्राप्तवान् । “या प्रापण" इति धातोलुंङि प्रथमपुरुष कवचने रूपम् । “यमरमनमातां सक् चे"ति सगिटौ।
अत्यन्त सुगन्धवाले, कस्तृरीसे युक्त चन्दनजलसे सिक्त शीतलमणि भूमिसे युक्त लगातार बिखरे गये, निर्मल रत्नोंसे निबद्ध भूमिमें आकाशमें तारागणके समान पुष्पोंके उपहार से निरन्तर व्याप्त, खुदी हुई पुतलियोंसे मानों गृहदेवताओंसे युक्त, मुगन्धितजलसे धोये गये सुवनिमित स्तम्भोंके समूहसे शोभित, अत्यधिक अगुरुके धूपसे सुगन्धित, संपूर्ण जलके निकलनेसे सफेद मेघके खण्ड का अनुकरण करनेवाले फूलों के सुगन्धसे युक्त शिर रखनेके स्थानमें चादरवाले रेशमी तकियेसे युक्त, मणिमय प्रतिपादुकाओंपर प्रतिष्ठित पाँवदानवाले, हिमशिलाके सदृश समीपास्थित रत्नखचित पाँवदानवाले पलंगसे युक्त सभामण्डपमें राजा शूदक भोजनके अनन्तर पहुँच गये।