________________
४०
कादम्बरी दमेव महदाश्चर्यम्, यदयमसङ्कीर्णवर्णप्रविभागामभिव्यक्तमात्रानुस्वार-स्वर-संस्कारयोगां विशेषसंयुक्ताम् अतिपरिस्फुटाक्षरां गिरमुदीरयति । तत्र पुनरपरम् अभिमतविषये तिरश्चोऽपि मनुजस्येव संस्कारवती बुद्धिपूर्वा प्रवृत्तिः । तथाहि-अनेन समुत्क्षिप्तदक्षिणचरणेनोच्चार्य जयशब्दमियमार्या मामुद्दिश्य परिस्फुटाक्षरं गीता। प्रायेण हि पक्षिणः पशवश्च भयाहारमैथुन-निद्रा-संज्ञामात्र-वेदिनो भवति । इदन्तु महच्चित्रम् ।'
इत्युक्तवति भूभुजि कुमारपालितः किञ्चिस्मितवदनो नृपमवादीत्-'देव ! किमत्र चित्रम् । एते हि शुकसारिकाप्रभृतयो विहङ्ग-विशेषा यथाश्रुतां वाचमुच्चारयन्तीत्यधिगतमेव
प्रथममिति । प्रथम = पूर्वम् । इदम् = प्रत्यक्षम्, एव, महत् आश्चर्यम् = अतिकौतुहलमिति भावः । यत् = यस्मात् कारणात्, अयं = शुक: असङ्कीर्णवर्णविभागाम् = असङ्कीर्णः ( संकररहितः, परस्परवलक्षण्येन श्रयमाण इति भावः ) वर्णविभागः = स्वरव्यञ्जनाद्यक्षरभिन्नत्वम् यस्यां सा ताम् । अभिव्यक्तमात्राऽनुस्वारसंस्कारयोगाम् = अभिव्यक्ताः (परिस्फुटाः) मात्राऽनुस्वारसंस्कारयोगाः ( मात्रा: = ह्रस्वादयः, अनुस्वारः, संस्कारः = व्याकरणशुद्धिः, येषां ते ) तादृशा योगाः ( सम्बन्धा: ) यस्यां सा ताम्, विशेषसंयुक्तां = विशेषेण ( शब्दश्लेषादिना ), संयुक्ताः ( सहिता )। ताम्, तादृशीं गिरं = वाणीम्, उच्चारयति = ब्रवीति ।
तत्रेति । तत्र = उच्चारणे । पुनः = भूयः, अपरम् = अन्यत्, वक्तव्यमस्तीति शेषः । अभिमतविषये = अभीष्टविषये, तिरश्चोऽपि = तिर्यग्जाते:, पशुपक्ष्यादेरपीति भावः। संस्कारवतः = तत्तदर्थविषयाऽनुभवजन्यः संस्कारः, तद्वतः ( तद्युक्तस्य ) मनुजस्य इव = मनुष्यस्य इव । बुद्धिपूर्वा = मतिपूर्विका, प्रवृत्तिः = चेष्टा, भवतीति शेषः ।
तादृशी प्रवृत्ति दर्शयति-तथाहोति । तथा हि-यथेति भावः । समुत्क्षिप्तदक्षिणचरणेन = समुत्क्षिप्तः (ऊर्वीकृतः ) दक्षिणचरणः ( वामेतरपादः ) येन सः, तेन । अनेन = शुकेन, जयशब्द = जयेति पदम्, उच्चार्य = उदीर्य, मां = राजानम्, उद्दिश्य, अनूद्य, इयम् एषा, आर्या = मात्राच्छन्दोविशेषः, परिस्फुटाऽक्षरं = व्यक्तवणं यथा तथा ( क्रि० वि०)। गीता = उदीरिता ।
प्रायेणेति । प्रायेण = बाहुल्येन, पक्षिण:=विहङ्गाः, पशवश्च = चतुष्पदाश्च, मृगादयश्चेति भाव: । भयाहारेत्यादिः = भयं (भीति:) आहारः (भक्षणम् ) मैथुनं ( रतिक्रीडा ) निद्रा ( स्वाप: ) संज्ञा ( सङ्केतशब्दादिः ), तन्मात्रवेदिनः ( तन्मात्रज्ञातारः ) भवन्ति = वर्तन्ते । इदं तु = एतत्तु, शुककर्तृकमार्याच्छन्दःपाठादिकमिति भावः । महत्=अधिकम्, आश्चर्य =विस्मयजनकमिति भावः । इत्युक्तवतीति । भूभुजि = राज्ञि शूद्रके, इति = उक्तप्रकारम्, उक्तवति = भाषितवति । कुमारपालितः = तन्नामा मन्त्रिमुख्य:, किञ्चित् = ईषत्, स्मितवदनः हास्ययक्तमुखः सन्, नपं = राजानम्, अवादीत् = अब्रवीत् ।
देवेति । देव =हे राजन्, अत्र = शुककृतोच्चारणादिविषये, किं, चित्रम् = आश्चर्यम् । एते होति । एते= इमे, शुकसारिकाप्रभृतयः = कीरसारिकादयः, विहङ्गभेदा: = पक्षि
मधुरताको सुना। पहले तो यही बड़ा आश्चर्य है कि यह (तोता) असङकीर्ण वर्णविभागवाली, स्पष्ट मात्रा, अनुस्वार और संस्कार के सम्बन्धसे युक्त तथा शब्दश्लेष आदिमे युक्त वाणीका उच्चारण करता है।
उस उच्चारणमें यह दूसरी बात है कि अभीष्ट विषयमें तिर्यग्जाति (पशु पक्षियों ) की भी संस्कारवाले मनुष्यकी समान बुद्धि पूर्वक प्रवृत्ति (चेष्टा ) होती है। जैसे कि-इसने दाहने पैरको उठाकर जयशब्दका उच्चारण कर मुझे उद्देश्य कर स्पष्ट अक्षरोंसे इस आर्याको गाया। अकसर पक्षी और पशु भय, आहार, मैथुन, निद्रा और सङ्केतमात्रको जाननेवाले होते हैं। यह तो बहुत आश्चर्य है। राजाके ऐसा कहनेपर कुमारपालितने कुछ मुस्कुराकर कहा- "इसमें क्या आश्चर्य है ? ये तोते मैना आदि पक्षिविशेष श्रवणके अनुसार वाणीका उच्चारण करते हैं