________________
३८
कादम्बरी स्वयञ्च कर्ता, परिहासालापपेशल:, वीणावेणु-मुरजप्रभृतीनां वाद्यविशेषाणामसमः श्रोता, नृत्यप्रयोगदर्शननिपुणः चित्रकर्मणि प्रवीणः, द्यूतव्यापारे प्रगल्भः, प्रणयकलह-कुपित-कामिनीप्रसादनोपायचतुरः, गज-तुरग-पुरुष-स्त्री-लक्षणाभिज्ञः, सकलभूतल-रत्नभूतोऽयं वैशम्पायनो नाम शुकः । सर्वरत्नानाञ्च उदधिरिव देवो भाजनमिति कृत्वैनमादायास्मत्स्वामिदुहिता देवपादमूलमायाता, तदयमात्मीयः क्रियतामित्युक्त्वा नरपतेः पुरो निधाय पञ्जरमसावपससार ।
अपसृते च तस्मिन् स विहङ्गराजो राजाभिमुखो भूत्वा समुन्नमय्य दक्षिणं चरणमतिस्पष्ट-वर्ण-स्वर-संस्कारया गिरा कृतजयशब्दो राजानमुद्दिश्या-मिमां पपाठआख्यानक ( नलोपाख्यानादिकम् ), तत्प्रभृतीनां ( तदादीनाम् ) अपरिमितानां ( नियतपरिमाणरहितानाम, अगणितानामितिभावः), सुभाषितानां = मनोहरनीत्यादिविषयकपद्यानाम् ), अध्येता = अध्ययनकर्ता, पाठकः । तेषां स्वयं च = आत्मना एव च । कर्ता = रचयिता, परिहासाऽऽलापपेशल: = परिहासः ( नर्मवचनम् ), तस्य आलापा: ( आभाषणानि ), तेषु पेशल: ( कुशल: ) वीणावेणुमुरजादीनां = वीणा ( वल्लकी ततवाद्यम् ) वेणुः ( वंशः सुषिरवाद्यम् ) मुरजः ( मृदङ्गः, आनद्धवाद्यम् ) तदादीनां (तत्प्रभृतिवाद्यविशेषाणाम्, आदिपदेन कांस्यादिकानि घनवाद्यानि गृह्यन्ते )। एतेषां वाद्यविशेषाणाम, असमः = अतुल्यः, अनुपम इति भावः । श्रोता = आकर्णयिता । नृत्यप्रयोगदर्शननिपुणः = नत्यं ( ताललयाऽभिनयाश्रितः संगीतविशेषः ) तत्प्रयोगः ( तदनुष्ठानम् ) तस्य दर्शने ( विलोकने) निपुणः ( प्रवीणः )। चित्रकर्मणि = आलेख्यक्रियायां, प्रवीणः = कुशलः । द्यूतव्यापारे = ातं ( दुरोदरम् ) तस्य व्यापारे ( कर्मणि ), प्रगल्भः = प्रतिभान्वितः । प्रणयकलहेत्यादिः = प्रणयकलहः ( प्रीतिविवादः ) तस्मिन् कुपिता ( क्रुद्धा ) या कामिनी ( रमणी ), तस्याः प्रसादनं ( प्रसन्नतापादनम् ), तस्मिन् ये उपायाः ( साधनानि ) तेषु चतुरः (निपुणः )। गजतुरगेत्यादिः = गजाः ( हस्तिनः ) तुरगाः ( अश्वाः ) पुरुषाः (पुमांसः ) स्त्रियः ( नार्यः ) तासां लक्षणानि ( सामुद्रिकादिशास्त्रप्रतिपादितानि ) तेषु अभिज्ञः (प्रवीणः )। सकलभूतलरत्नभूतः = सकलं ( समस्तम् ) यत् भूतलं (धरामण्डलम् ) तत्र रत्नभूतः ( श्रेष्ठभूतः )। अयं = सन्निकृष्टस्थः, वैशम्पायनो नाम = नाम्ना वैशम्पायन इति प्रसिद्धः, शुक: = कीरः । सर्वरत्नानां= सकलमणीनाम, उदधिः= रत्नाकरः, इव, सर्वरत्नानां = सकलश्रेष्ठवस्तूनां, देवः = भवान्, भाजनं = पात्रं, "रत्नं स्वजातिश्रेष्ठेऽपि मणावपि नपुंसकम्' इति मेदिनी । इति कृत्वा = इति विमृश्य । एनम् = शुकम्, आदाय = गृहीत्वा, अस्मत्स्वामिदुहिता = अस्मत्स्वामिनः ( अस्मत्प्रमोः ) दुहिता (पुत्री)। देवपादमूलं = भवच्चरणमलम्, आयाताआगता, अस्तीति शेषः । तत् = तस्मात्कारणात्, अयं = वैशम्यायननामा शुकः, आत्मीयः = स्वकीयः, क्रियतां = विधीयताम् । इति = पूर्वोक्तं वाक्यम्, उक्त्वा = अभिधाय, पञ्जरं =पिजरं, शुकवासपात्रं, नरपतेः = राज्ञः शूद्र कस्य, पुरः = अने, निधाय = स्थापयित्वा, असौ = वक्ता पुरुषः, अपससार= अपसृतः ।
अपसृत इति । तस्मिन्-पूर्वोक्ते पुरुष, अपसृते = दूरीभते सति, सः = पूर्वोक्तः, विहङ्गराजः = गीतकी तीव्रा आदि श्रुतियोंका जानकार, काव्य, नाटक, आख्यायिका, और आख्यानक आदिके अपरिमित सुभाषितोंको पढ़ा हुआ और स्वयम् भी रचना करनेवाला, परिहासके भाषणमे निपुण, बीन, बाँसुरी, पखावज आदि वाद्योंका बेजोड़ श्रोता (सुननेवाला), नृत्यके प्रयोग और दर्शनमें कुशल, चित्रकर्ममें निपुण, द्यूतक्रीड़ामें प्रतिभासंपन्न, प्रेमकलहमें क्रुद्ध नायिकाको प्रसन्न करनेके उपायमें निपुण, हाथी, पुरुष और स्त्रियोंके लक्षणोंका जानकार, समस्त भूतलमें रत्नस्वरूप यह वैशम्पायनं नामका तोता है, महाराज भी समुद्र के समान समस्त रत्नोंके पात्र हैं ऐसा समझकर इस ( तोते ) को लेकर हमारे स्वामीकी पुत्री महाराजके चरणमूलमें आई हैं। इस कारणसे आप इसको अपना बनाएँ।" ऐसा कहकर राजाके आगे उस पिंजड़ेको रखकर वह हट गया। उसके हटनेपर उस पक्षिराज (तोते) ने राजाके सम्मुख होकर दाएँ पैरको उठाकर अत्यन्त स्पष्ट वर्ण, स्वर और संस्कारवाली