________________
कथामुखे-शूद्रकवर्णनम् वसुन्धरया हृदयेनेवोह्यमानम्, अशेषजनभोग्यतामुपनीतयाप्यसाधारणया राजलक्ष्म्या समालिङ्गितम्, अपरिमितपरिवारजनमप्यद्वितीयम्, अनन्त-गज-तुरग-साधनमपि खड्गमात्रसहायम्, एकदेशस्थितमपि व्याप्तभुवनमण्डलम्, आसने स्थितमपि धनुषि निषण्णम्, उत्सादिताशेषद्विषदिन्धनमपि ज्वलत्प्रतापानलम्, आयतलोचनमपि 'सूक्ष्मदर्शनम्-' महादोषमपि सकलगुणाधिष्ठानम्, कुपतिमपि कलत्रवल्लभम्, अविरत-प्रवृत्त-दानमप्यमदम्, अत्यन्तशुद्ध-स्वभावमपि कृष्णचरितम्, अकरमपि हस्तस्थित-सकल-भुवनतलं राजानमद्राक्षीत् । यस्य सः, तस्य मावस्तत्ता, तया हेतुना, वसुन्धरया = पृथिव्या, पतिप्रेम्णा = भर्तृप्रणयेन,हृदयेन = हृदा, उह्यमानं =धार्यमाणम्, इव । उत्प्रेक्षा। अशेषजनभोग्यताम् = अशेषाः ( समस्ताः ) ये जनाः ( लोका: ) तेषां भोग्यताम् ( उपभोगयोग्यताम् ), उपनीतया % प्राप्तया, अपि, सर्वसामान्ययाऽपीति भावः । तथाऽपि असाधारणया = असामान्यया, एतादृश्या राजलक्ष्म्या = भूपश्रिया, समालिङ्गितदेह = समाश्लिष्टशरीरम्, अत्र विरोधाभासाऽलङ्कारः। अशेष० इत्यत्र लक्ष्म्या = शोभया, असामान्यया राजलक्ष्म्या = शूद्रकादन्यत्राऽस्थितया राजलक्ष्म्या इति विरोधप्रतिहारः ।
अपरिमितेति । अपरिमितपरिवारजनम् = असंख्यातपरिजनलोकम् अपि, अद्वितीयं = द्वितीयजनरहितम्, अत्राऽपि विरोधाभासस्तत्परिहारस्तु, अद्वितीयं = सर्वोत्कृष्टम् ।
__ अनन्तेति । अनन्तगजतुरङ्गसाधनम् = अनन्ताः ( असंख्याः ) गजाः ( हस्तिनः ) तुरङ्गाः ( अश्वाः ) एव साधनानि ( उपकरणानि ) यस्य सः, तम्, अपि, खड्गमात्रसहायं = खड्मात्रं (करवालमात्रम् ) सहायः (सहचरम् ) यस्य तम् । विरोधामासः, गजाद्यनपेक्षत्वेन खड्गमावाअपेक्षिणम् इति तत्परिहारः । एकदेशस्थितम् =एकदेशः (एकप्रदेशः, समानमण्डपादिरिति माव:) तस्मिन् स्थितम् ( निषण्णम् ) अपि, व्याप्तभुवनमण्डलं = व्याप्तं (व्याप्तिविषयीकृतम् ) भुवनमण्डलं ( जगन्मण्डलम् ) येन, तम्, अत्राऽपि विरोधाभासः, प्रतापाऽतिशयेनेति परिहारः । आसन इति । आसने = सिंहासने, स्थितम् = उपविष्टम्, अपि, धनुषि = चापे, निषण्णं = स्थितम्, अत्राऽपि विरोधामासः, धनुष आधारत्वेनैव स्थितम् इति परिहारः ।
उत्सादितेति । उत्सादितद्विषदिन्धनम् = उत्सादितानि (व्यापादितानि) निर्वापितानीति भावः । द्विषन्तः (शत्रवः ) इव इन्धनानि ( काष्ठानि ) येन, तम्, अपि, ज्वलत्प्रतापाऽनलं = ज्वलन् ( दहन ) प्रतापः ( तेजः ) एव अनलः ( अग्निः ) यस्य, तम् । अत्र द्विषत्सु इन्धनत्वारोपः प्रतापेऽनलत्वारोपस्य कारणमिति परम्परितरूपकं तथा इन्धनस्योत्सादितत्वे सति कथं ज्वलनत्वमिति विरोधाभासच, ज्वलन् = दीप्यमान इति विरोधपरिहारः, इत्थं च द्वयोरप्यलङ्कारयोरङ्गाङ्गिभावेन सङ्करः ।
___आयतेति । आयतलोचनम् = आयते ( विशाले ) लोचने ( नेत्रे ) यस्य, तम्, अपि, सूक्ष्मदर्शनं = सूक्ष्मे ( अविशाले ) दर्शने ( लोचने ) यस्य, तम् । विरोधाभासः । सूक्ष्मम् (अध्यात्मविषयम्) दर्शनं ( ज्ञानम् ) यस्येति परिहारः । “सूक्ष्म स्यात्कतवेऽध्यात्मे पुंस्यणी, त्रिषु चाऽल्पके ।" इति । "दर्शनं नयनस्वप्नबुद्धिधर्मोपलब्धिषु ।" इत्यपि मेदिनी। महादोषम् अपि सकलगुणाऽधिष्ठानम्, सम्पूर्ण शरीरका प्रतिविम्ब संक्रान्त होनेसे मानों पतिके प्रेमसे पृथ्वीके द्वारा हृदयमें धारण किये गयेके समान, समस्त मनुष्योंके उपभोगके विषय होनेपर असामान्य राजलक्ष्मीसे आलिङ्गित शरीरवाले, असंख्य परिजनोंके होनेपर भी अद्वितीय ( दूसरेसे रहित, परिहारपक्ष-मादृश्यसे रहित ), असंख्य हाथी घोड़े आदि साधनोंके होनेपर भी खगमात्रकी सहायता लेनेवाले ( खड्गमात्रको सहाय समझनेवाले ) एक स्थानमें रहकर भी भुवनमण्डलको व्याप्त करनेवाले, सिंहासनमें बैठकर भी धनुषपर विद्यमान (धनुषका ही सहारा लेनेवाले ), समस्त शत्रुरूप इन्धन (लकड़ी) को नष्ट करनेपर भी जले हुए प्रतापरूप अग्निवाले, विशाल नेत्रोंवाले होकर भी मूक्ष्म दर्शनों (नेत्रों) वाले विशालनेत्र होकर भी मूक्ष्मदर्शन (छोटे नेत्रोंवाले, परिहारपक्षमें अध्यात्मविषयक ज्ञानसे युक्त) महादोष ( विरोधमें-महादोपोंसे युक्त, परिहारपक्षमें-दीर्घ बाहुओंसे युक्त) होकर संपूर्ण गुणोंके आधार, कुपित