________________
१७
कथामुखे-शूद्रकवर्णनम् केशग्रहाः, काव्येषु दृढवन्धाः, शास्त्रेषु चिन्ता, स्वप्नेषु विप्रलम्भाः, छत्रेषु कनकदण्डाः, ध्वजेषु प्रकम्पाः, गीतेषु रागविलसितानि, करिषु मदविकाराः, चापेषु गुणच्छेदाः, गवाक्षेषु जालमार्गाः, शशिकृपाणकवचेषु कलङ्काः, रतिकलहेषु दूतसम्प्रेषणानि, सार्यक्षेषु शून्यगृहाः न प्रजानामासन्।
भामन्" इति उत्तरपदैः सम्बन्धः, एवं परत्राऽपि। प्रजानां जनानाम्, वर्णसङ्कराः = वर्णानां (ब्राह्मणादीनाम् ) सङ्करा: ( अनुलोमप्रतिलोमत्वेन मिश्रणानि ) न आसन् =न अभवन्, धर्ममर्यादाया विद्यमानत्वादिति भावः । रतेषु = कामक्रीडासु, केशग्रहाः = कचग्रहणानि, प्रजानां कलहेषु न केशग्रहः, काव्येषु = कविकर्मसु, दृढबन्धाः = पदसमासादिगाढगुम्फनानि, प्रजानां गाढबन्धाः = दृढबन्धनानि न । शास्त्रेषु = बेदादिशास्त्रेषु, चिन्ता=चिन्तनं, प्रजानां विषयान्तरे चिन्ता न । स्वप्नेषु = स्वापाऽवस्थासु, विप्रलम्भाः = वियोगाः, प्रजानां विप्रलम्भा न। छत्त्रेषु = आतपत्रेषु, कनकदण्डाः= सुवर्णयष्टयः, अपराधाऽभावात् प्रजानां कनकदण्डा:= सुवर्णादिदण्डा: न आसन् । ध्वजेषु = पताकासु, प्रकम्पा:विधुननानि, प्रजानां प्रकम्पा न आसन् । गीतेषु = गानेष, रागविलसितानि = भैरवादिरागविलासा:, प्रजानां रागविलासा: =निषिद्धाऽनुरागचेष्टितानि, न आसन् । करिषु = हस्तिषु, मदविकारा:दानविकृनमः, प्रजानां मदविकारा:= गर्वविकृतयः न आसन् । “मदो रेतसि कस्तूर्या गर्व हर्षेभदानयोः।" इति मेदिनी। चापेषु = धनुःषु, गुणच्छेदाः= ज्यात्रोटनं, प्रजानां गुणच्छेदाः = दयादाक्षिण्मादिगुणभङ्गा न आसन् । गवाक्षेषु = वातायनेषु, जालमार्गः = वातागमनाय लघुच्छिद्राणि, प्रजानां नालमार्गाः = दम्माचारपद्धतयः, न आसन् । “जालं बृन्दगवाक्षयोः । क्षारकाऽऽनायदम्भेषु, नीपे ना, स्त्री तु घोषके ।" इति रभसः । शशिकृपाणकवचेषु = शशी (चन्द्रः), कृपाणः (खड्गः, द्वावपि शब्दौ पुंस्येव, क्लीबलिङ्गे प्रयोक्तारो भ्रान्ताः) कवचः (वारबाणः), तत्र कलङ्काः (चिह्नानि), तत्र च चन्द्रे कलङ्को मृगलाञ्छनाकारः, कृपाणे कवचे च युद्धाऽभावात् माजनराहित्येन मालिन्यरूपः, कलङ्को यथायथं ज्ञेयः । प्रजानां तु दुराचाराऽभावात् कलङ्काः ( अपवादाः ) न आसन् । “कलङ्कोऽङ्केऽपवादे च कालायसमलेऽपि च ।" इति मेदिनी। रतिकलहेष = कामक्रीडाविग्रहेषु, दूतप्रेषणानि%= सन्देशहरप्रेरणानि, प्रजानां दूतप्रेषणानि कलहाऽभावान्न आसन् । सार्यक्षेषु = सारिः ( अक्षक्रीडाफळकम् ), अक्षाः (पाशकाः ), तेषु, शून्यगृहाः = शून्यभवनानि, प्रजानां शूम्यगृहा न आसन्, नानाविधकार्यव्यापृतत्वादिति भावः । “सा ( शा) री त्वक्षोपकरणे तथा शकुनिकाऽन्तरे।" इति विश्वः । "भक्षास्तु देवनाः पाशकाश्च ते"। इत्यमरः । पूर्वोक्तेषु चतुर्दशसु वाक्येषु श्लेषः, शाब्दी परिसंख्या ब, अनयोमिथोऽनपेक्षया स्थितेः संसृष्टिरलङ्कारः ।
सकर (संमिश्रण) थे। प्रजाओं में वर्णसङ्कर = अर्थात् ब्राह्मण आदि वर्गों में सङ्कर (संमिश्रण) नहीं था। रतिक्रीडाओंमें केशग्रहण था, कलहमें केशग्रहण नहीं था। काव्योंमें पद समास आदिका दृढ बन्ध था, और व्यक्तिका दृढ बन्धन नहीं था। शास्त्रोंमें चिन्ता थी, विषयोंमें नहों। स्वप्नोंमें वियोग होता था, जागरणमें नहीं । छत्रोंमें सुवर्णके दण्ड थे, किसीको सुवर्णका दण्ड (जुर्माना) नहीं किया जाता था। पताकाओंमें कम्प होते थे, प्रजाओंमें नहीं। गानोमें राग ( भैरव आदि ) के विलास थे, प्रजाओंमें राग (निषिद्ध अनुराग )के विलास नहीं थे। हाथियोंमें मद (दानजल )के विकार थे, प्रजाओंमें मद (गर्व )के विकार नहीं थे। धनुषोंमें गुण ( प्रत्यञ्चा)के देद थे, प्रजाओंमें गुण ( दया दाक्षिण्य आदि गुणों )का छेद नहीं था। झरोखोंमें जाल (हवा बनेके लिए छोटे-छोटे छेद) थे, प्रजाओंमें जाल ( दम्भ आचार ) नहीं थे। चन्द्रमा मृगरूप कलङ्क, तलवारमें कलङ्क ( जंग ) और कवचमें कलङ्क (मालिन्य ) थे, प्रजाओंमें कलङ्क ( अपवाद ) नहीं थे। कामक्रीडाके कलहोंमें दूतोंका प्रेषण ( भेजना ) था, कलहके न होनेसे प्रजाओंमें दूतोंका प्रेषण (भेजना) नहीं था। सारी (पाशा खेलनेका पात्र ) और पाशोंमें शून्यगृह थे, प्रजाओंके शून्यगृह नहीं थे।
२ का