________________
कादम्बरी विदग्धानाम्, वैनतेय इव विनतानन्दजननः, वैन्य इव चापकोटिसमुत्सारितसकलाऽरातिकुलाचलो राजा शूद्रको नाम । " नाम्नैव यो निभिन्नारातिहृदयो विरचितनरसिंह-रूपाडम्बरम्, एकविक्रमाक्रान्तसकलभुवनतलो विक्रमत्रयायासितभुवनत्रयं जहासेव वासुदेवम् । गोष्ठोबन्धानां = सभाप्रबन्धानां, प्रवर्तयिता = प्रवर्तकः । रसिकानांविदग्धानाम्, आश्रयः= आधारहेतुः। धनुष्मतां = धनुर्धारिणां, प्रत्यादेशः =निराकर्ता । माहसिकानां = साहसकर्माऽनुष्ठातृणां, धौरेयः = धुरन्धरः, धुरं वहतीति "धुरो यड्ढको' इति ढक प्रत्ययः । विदग्धानां = पण्डितानाम्, अग्रणी: = मुख्यः, अग्रं नयतोति "सत्मद्विषे''त्यादिना विप्, "अग्रग्रामाभ्यां नयतेो वाच्य'' इति णत्वम् । वैनतेय इव = गरुड इव, विनताया अपत्यं पूमान्, "स्त्रीभ्यो ढक" इति ढक । विनताऽऽनन्दजनन:-विनतायाः (तदाख्यस्वमातुः ) राजपक्षे--विनतानाम् ( प्रणतानां गजाम् ) आनन्दजनन:( हर्षोत्पादक: ) । पुर्णोपमा ।
वैन्य इव = पृथुरिव, वेनस्याऽपत्यं पुमान्, कुर्वादिगणे वेनशब्दस्य पाठान् "कुर्वादिभ्यो ण्य" इति सूत्रात् "वेनाच्छन्दसि" इत्युक्तेः ण्यः । लोके वैन्यशब्दप्रयोगश्चिन्त्यः । चापकोटिसमुत्सारितसकलाऽरातिकुलाऽचल: = चापस्य (धनुषः ) कोटि: ( अग्रभागः ), ततः समुत्सारिता: ( दूरी कृताः ) सकलाऽगतयः ( समस्तशत्रवः ) कुलाचला इव ( महेन्द्रादिकुलपर्वता इव ) येन सः, पूर्वकाले महाराजः पृथुः पर्वताकीर्णा पृथ्वी चापकोट्या पर्वतानुत्सार्य समीचकारेति श्रीमद्भागवतम् । राजपक्षे–चापानां ( धनुषाम् ) कोटिः ( कोटिमितसंख्या ) तया समुत्सारिता, ( निराकृताः ) सकलाः ( समस्ताः ) अरातयः ( शत्रवः ) एव कुलाचला: ( कुलपर्वताः ) येन सः । शूद्रको नाम = नाम्ना शूद्रकः । राजा = भूपः आसीत् = अभवत् इति पूर्वस्थक्रियापदेन सम्बन्धः ।
यः = शद्रकः । नाम्ना एव = स्वनामधेयेन एव, निभिन्नाऽरातिहृदयः = निभिन्नानि ( विदारितानि ) अरातीनां ( शत्रूणाम् ) हृदयानि ( वक्षः स्थलानि ) येन सः, विरचितनरसिंहरूपाडम्बरं = विरचितः ( विहितः ) नरसिंहरूपस्य (नृसिंहस्वरूपस्य ) आडम्बर: ( समारम्भः ) येन सः, "आडम्बरः समारभ्मे गजजिततूर्ययोः । “इति विश्वः । पदमिदं “वासुदेवम्' इत्यस्य विशेषणं, तथा च एकविक्रमाक्रान्तसकलभुवनतल:= एकः ( अद्वितीयः ) यो विक्रमः ( पराक्रमः ), तेन आक्रान्तं ( व्याप्तम् ) सकल ( समग्रम् ) भुवनतल ( लोकस्वरूपम् ) येन सः, तादृशो राजा । विक्रमअयाऽऽयासितभुवनत्रयं विक्रमाणां ( पादविक्षेपाणाम् ) यत् त्रयं (त्रितयम् ), तेन आयासितं ( पीडितम् ) भुवनत्रयं ( लोकत्रितयम् ), येन तम् । वासुदेवं = विष्णुम् तम् । जहास इव = उपहसितवान् इव । स्वनाममात्रेण शत्रुहृदयविदारको यो राजा नसिहरूपेण हिरण्यकशिपूवक्षः स्थलविदारक विष्णु, तथा एकविक्रमेण लोकत्रयव्याप्यत्वेन पादविक्षेपत्रितयव्यापकं वामनमुपहसित वानिति मावः । अत्र उपमानभूत-नृसिंह वामनाभ्यामुपमेयभूतस्य राज्ञः शूद्रकस्याऽऽधिक्यवर्णनाद् व्यतिरेकाऽलङ्कारस्तथा जहास इवेत्यत्र क्रियोत्प्रेक्षा चेति द्वयोरङ्गाङ्गिभावेन सङ्करः। एवं चाऽत्र हसघातोरकर्मकत्वाद्वासुदेवमित्यत्र लक्ष्यीकृत्येति पदमध्याहार्यम् । सभायोजनाओंके प्रवर्तक रसिकांक अवलम्बन स्वरूप, धनुर्धारियोंका निराकरण करनेवाल ( हटानेवाले), साहस वालोंके धुरन्धर, पण्डितोंमें प्रधान, जैसे गरुडजी विनता ( अपनी माता )कं आनन्दको उत्पन्न करते हैं वैसे ही विनत ( नम्र ) जनोंको आनन्द देने वाले, जैसे महाराज पृथुने धनुकं अग्रभागसे कुलपर्वतोंको हटाया था उसीतरह असंख्य धनुसे पर्वतके ममान समस्त शकुलको हटाने वाले शूद्रक नामके गजा थे ।
नाममात्रसे शत्रुओंके हृदयको विदीर्णा करनेवाले जिन्होंने नृमिहके रूपका आडम्बर रचनेवाले वासुदेव(विष्णु)का भौर एकमात्र विक्रम (पराक्रम )से समस्त भुवनको आक्रमण करनेवाले जिन्होंने तीनविक्रमों (पादविक्षेपों )से तीन लोकोंको व्याप्त करनेवाले वासुदेव (वामनरूप लेनेवाले विष्णु)का मानों उपहास किया था