________________
कथा-मुखम् शूद्रवर्णनम्
आसीदशेष- नरपति- शिरः समर्थ्याच्चत-शासनः पाकशासन इवापरः, चतुरुदधिमालामेखलाया भुवो भर्त्ता, प्रतापानुरागावनत समस्त सामन्त चक्रः, चक्रवतिलक्षणोपेतः, चक्रधर इव करकमलोपलक्ष्यमाण-शङ्ख-चक्र-लाञ्छन:, हर इव जितमन्मथः, गुह इवाप्रतिहतशक्तिः, कमलयोनिरिव विमानीकृत राजहंसमण्डलः, जलधिरिव लक्ष्मीप्रसूतिः, गङ्गाप्रवाह
सम्प्रति कथा प्रस्तूयते । अशेषनरपतिशिरः समभ्यचितशासनः = अशेषाः ( समस्ताः ) ये नरपतयः ( राजानः), तेषां शिरोभिः ( मस्तकैः ), समयचितं ( संपूजितं, सादरं गृहीतमिति भाव: ) शासनम् ( आज्ञा ) यस्य सः । अतः अपरः = अन्यः, पाकशासन इव = इन्द्र इव । इन्द्रः पूर्वकाले पाकनामक दैत्यं जघान ततस्तस्य "पाकशासन" पदेन प्रसिद्धिः । सर्वं विशेषणं शूद्रकस्य राज्ञः । "आसीत् " इति क्रियापदेन सम्बन्धः । अत्र " शासन" पदावृत्तेर्य मकाऽलङ्कारः, उत्प्रेक्षाऽलङ्कारश्च । चतुरुदधिमा लामेखलायाः = चतुर्णाम् ( चतुः संख्यकानाम् ) उदधीनां ( समुद्राणाम् ) माला ( पङ्क्तिः ) सा एव मेखला ( काञ्ची, अवधिरिति भावः ) यस्याः, तस्याः । तादृश्या: भुव: ( पृथिव्या: ), भर्ता ( स्वामी ) । अत्र भुवि शूद्रके च नायिकानायक व्यवहारसमारोपात्ममासोक्तिरलङ्कारः । प्रतापाऽनुरागाऽवनतसमस्तसामन्तचक्रः = प्रतापः ( कोशदण्डजं तेजः ) अनुरागः ( प्रेम ), ताभ्याम् अवनतं ( प्रणतम् ) समस्तं ( संपूर्णाम् ) सामन्तचक्रं ( मण्डलेश्वरसमूहः ) यस्य स । यथा लोहचक्रम् अग्नितापादवनतं भवति तथैव शूद्रकस्य प्रतापादनुरागाच्च सामन्तमण्डलमवननमिति ध्वनिः । चक्रवर्तिलक्षणोपेतः = चक्रवर्तिनः ( सार्वभौमस्य ) लक्षणानि ( सामुद्रिक शास्त्रप्रतिपादित चिह्नानि ), तैरुपेतः ( युक्तः ) । चक्रधर इव = विष्णुरिव, धरतीति धर: ( पचाद्यचू ), चक्रस्य धरः, अत्र चक्रं धरतीति विग्रहश्च्युतसंस्कृतिदुष्ट: । "कर्मण्यण्" इत्यनेन अणा "चक्रधार" इति रूपसिद्धेः । करकमलोपलक्ष्यमाणशङ्खचक्रलाञ्छनः = करकमलयोः ( पाणिपद्मयोः ) उपलक्ष्यमाणानि ( दृश्यमानानि ) शङ्खचक्रलाञ्छनानि ( शङ्खचक्राकार रेखाचिह्नानि ) यस्य सः । अत्र पूर्णोपमा वृत्यनुप्रासव । हर इव = महादेव इव, जितमन्मथः = जित: ( पराजितः ) महादेवपक्षे - भालाऽनलदाहेनेति भाव, शूद्रकपक्षे— जितेन्द्रियत्वात्सौन्दर्याऽतिशयाद्वेति भावः । मन्मथ : ( कामदेव : ) येन सः । पूर्णोपमालङ्कारः ।
गुह इव = कार्तिकेय इव, अप्रतिहतशक्तिः = अप्रतिहता ( अनिरुद्धा ) शक्ति: ( कात्तिकेयपक्षे --- आयुधविशेषः, शूद्रक पक्षे ( सामर्थ्यम् ) यस्य सः । पूर्णोपमा । कमलंयोनिः इव = कमलं ( विष्णुनाभिपद्मम् ) योनि: ( कारणम् ) यस्य सः, ब्रह्मा इवेति भावः । विमानीकृतराजहंसमण्डल: = कमलयोनिपक्षे — विमानीकृतं (व्योमयानीकृतम्) राजहंसानां ( हंसविशेषाणां ) मण्डलं ( समूहः । ) येन सः शूद्रकपक्षे - विमानीकृतं ( भग्नदर्पीकृतम् ), विजयेनेतिशेषः, राजहंसानां ( श्रेष्ठभूपानाम् ) मण्डलं ( समूह : ) येन सः । पूर्णोपमा । जलधिः इव समुद्र इव, लक्ष्मीप्रसृतिः, समुद्रपक्षे – लक्ष्म्याः ( पद्माया ) प्रसूति: ( उत्पत्तिस्थानम् ), शूद्रकपक्षे - लक्ष्म्याः ( सम्पत्तेः शोभाया वा ( प्रसृतिस्थानम् ), "लक्ष्मीः सम्पत्तिशोभयोः । ऋद्धौषधे च पद्मायां वृद्धिनामौषधेऽपि च ।" इति
प्रसूतिः
समस्त राजाओं के शिरसे पूजिन आज्ञावाले दूसरे इन्द्रके समान, चार समुद्रों की पङ्क्तिरूप मेखलासे युक्त भूमि के स्वामी, जिनके प्रताप और अनुरागसे समस्त मण्डलेश्वर राजालोग झुकते थे, चक्रवतकं लक्षणोंसे युक्त, चक्रधर भगवान् विष्णुके ममान करकमलोंमें देखे जानेवाले शङ्ख और चक्रके चिह्नसे युक्त, शिवजी के समान कामदेवको जीतने वाले, जैसे कात्तिकेयका शक्तिशस्त्र कुण्ठित नहीं होता है, उसी तरह अकुण्ठित शक्ति (सामर्थ्य)वाले जैसे ब्रह्माजी विमानीकृत- राजहंसमण्डल अर्थात् राजहंसोंको विमान ( व्योमयान ) बनानेवाले हैं, वैसे ही विमानीकृत अर्थात् पराजित कर श्रेष्ठ राजाओंको मानहीन बनानेवाले, जैसे समुद्र लक्ष्मीके उत्पत्तिस्थान हैं