________________
विवंशवर्णनम्
स चित्रभानुं तनयं महात्मनां सुतोत्तमानां श्रुतिशास्त्रशालिनाम् । अवाप मध्ये स्फटिकोपलामलं क्रमेण कैलासमिव क्षमाभृताम् ॥ १६ ॥ महात्मनो यस्य सुदूरनिर्गताः कलङ्कमुक्तेन्दुकलामलत्विषः । द्विषन्मनः प्राविविशुः कृतान्तरा गुणा नृसिंहस्य नखाङ्गरा इव ॥ १७ ॥
:=
( क० धा० ), तेन शोभिताः तैः ( तृ० त०), "दानं गजमदे त्यागे" इति विश्वमेदिन्यौ । स्फुरन्महावीरसनाथमूर्तिभिः = स्फुरन्तत्र ते महावीराः ( क० धा० ) । " महावीरस्तु गरुडे शूरे सिंहे मखाऽनले ।” इति मेदिनी। तैः सनाथा ( तृ० त० ) तादृशी मूर्तिर्येषां ते ( बहु० ) । यूपकरै:: यूप इव करो येषां तै: "करो वर्षोपले रश्मौ पाणौ प्रत्यायशुण्डयोः । " इति मेदिनी । असंख्यैः = अविद्यमाना संख्या येषां तैः " नञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः " इससे नञ् - बहुव्रीहि । सुराणाम् आलय:, तम् ( ष० त० ) । अजयत् = जि + लङ् + तिप् । इस पद्यमें शाब्दी उपमा है ।। १५ ।।
अन्वयः -- स क्षमाभृतां मध्ये स्फटिकोपलोपमं कैलासम् इव क्रमेण क्षमाभृतां महाऽऽत्मनां श्रुतिशास्त्रशालिनां सुतोत्तमानां मध्ये चित्रभानुं तनयम् अवाप ।। १६ ।।
सइति । सः = अर्थपतिः, क्षमाभृतां = पर्वतानां मध्ये = अन्तरे । स्फटिकोपलोपमं = स्फटिकरत्नसदृशं कैलासम् इव = शिवपर्वतम् इव क्रमेण = अनुक्रमेण, क्षमाभृतां = क्षान्तिमतां महात्मनां = जितेन्द्रियाणां श्रुतिशास्त्रशालिनां = वेदशास्त्रशोभितानां सुतोत्तमानाम् = उत्तमपुत्राणां, मध्ये = अन्तरे, चित्रभानुं = चित्रभानुनामकं तनयं = पुत्रम् अवाप = प्राप्तवान् ।। १६ ।।
टिप्पणी--क्षमाभृतां = क्षमां बिभ्रतीति क्षमाभृतः, तेषाम्, क्षमा + भृ + क्विप् ( उपपद ० ) + आम् । “क्षितिक्षान्त्योः क्षमा" इत्यमरः । स्फटिकोप लोपमं = स्फटिक वाऽसौ उपल: ( क० धा० "उपल: प्रस्तरे रत्ने शर्करायां तु योषिति ।" इति मेदिनी । स्फटिकोपल उपमा यस्य सः, तम् ( बहु० ) । महाऽऽत्मनां = महान् आत्मा येषां ते महाऽऽत्मानः, तेषाम् (बहु० ) श्रुतिशास्त्रशालिनां : श्रुतयश्च शास्त्राणि च (द्वन्द्वः), श्रुतिशास्त्र: शाड (ल) न्ते तच्छीलाः, तैः श्रुतिशास्त्र + शाड़ ( लृ ) + णिनि: ( उपपद ० ) + आम् । सुतोत्तमानां = सुताच ते उत्तमाः तेषाम् ( क० धा० ) । अवाप = अव + आप् + लिट् + तिप् (ल् ) । इस पद्यमें उपमा अलङ्कार है ।। १६॥
=
अन्वयः -- नृसिंहस्य नखाऽङ्करा द्विषन्मन इव महात्मनो यस्य गुणाः सुदूरनिर्गताः कलङ्कमुक्तेन्दुकलाऽमलत्विषः सन्तः द्विषन्मनः अपि कृताऽन्तराः सन्तः प्राविविशुः ।। १७ ।।
महात्मन इति । नृसिंहस्य = भगवतो नरसिंहस्य ( श्रीविष्ण्वतारविशेषस्य ), नखाऽङ्कराः = नखगङ्कराः, द्विषन्मन इव = शत्रु (हिरण्यकशिपु ) हृदयम् इव महात्मनः = महानुभावस्य, यस्य= चित्रभानोः, गुणाः = पाण्डित्यदयादाक्षिण्यादयः, सुदूरनिर्गताः = अतिदूरनिष्क्रान्ताः सर्वत्र प्रथिता इति भाव: । कलङ्कमुक्तेन्दुकलाऽमलत्विषः = निष्कलङ्क चन्द्रकलासमनिर्मलकान्तयः सन्तः, द्विषन्मनः अपि = शत्रु चित्तम् अपि कृताऽन्तराः = विहिताऽवकाशाः सन्तः प्राविविशुः = प्रविष्टाः ॥ १७ ॥
टिप्पणी-- नृसिंहस्य = ना सिंह इव, तस्य ( उपमित० ) । नखाऽङ्कुराः = नखानाम् अङ्कुराः ( ष० त० ) । महात्मनः महान् आत्मा यस्य स महात्मा, तस्य ( बहु० ) । सुदूरनिर्गता: : सुदूरं निर्गता: ( सुप्सुपा० ) । कलङ्कमुक्तेन्दुकलाऽमलत्विषः = कलङ्केन मुक्तः ( तृ० त० ), स
=
अर्थपतिने पर्वतोंके बीच में स्फटिकरत्नके सदृश कैलास पर्वत के समान क्रमसे क्षमासम्पन्न, जितेन्द्रिय उत्तम पुत्रोंके वोच चित्रभानु नामके पुत्रको प्राप्त किया ॥ १६ ॥
जैसे भगवान् नृसिंहके नखाऽङ्कुरोंने शत्रु (हिरण्यकशिपु ) के हृदयमें बहुत दूरतक प्रवेश किया था उसी तरह महात्मा जिन चित्रभानुके गुण बहुत दूरतक फैलकर निष्कलङ्क चन्द्रमाकी कलाके समान निर्मल कान्तिवाले होकर शत्रुओंके मनमें भी स्थान बनाकर प्रवेश करते थे ।। १७ ।।