________________
१५०
कादम्बरी राम्भसि पतिते दिवसकरे वेगोत्थितमम्भःशीकर-निकरमिव तारागणमम्बरम् अधारयत् । अचिराच्च सिद्ध-कन्यका-विक्षिप्त-सन्ध्यार्चन-कुसुम-शबलमिव तारकितं वियदराजत । क्षणेन चोन्मुखेन मुनिजनेनोर्ध्व-विप्रकीर्णैः प्रणामाञ्जलि-सलिले: क्षाल्यमान इवागलदखिल: सन्ध्यारागः ।
क्षयमपगतायां सन्ध्यायां तद्विनाश-दुःखिता कृष्णाजिनमिव विभावरी तिमिरोद्गममभिनवमवहत् । अपहाय मुनि-हृदयानि सर्वमन्यदन्धकारतां तिमिरमनयत् । क्रमेण च रविरस्तं गत इत्युदन्तमुपलभ्य जातवैराग्यो धौत-दुकूल-वल्कल-धवलाम्बरः सतारान्तःपुरः, पर्य
अपरेति । अपरसागराऽम्भसि = अपरः (पश्चिमः ) यः सागरः ( समुद्रः) तस्य अम्भसि ( जले ), पतिते= स्रस्ते, दिवाकरे = सूर्ये, अम्बरम् = आकाशं, तत्पतनात्, वेगेन ( जवेन ) उत्थितम् (कृतोत्थानम् ), अम्मःसीकरनिकरम् जलबिन्दुकणसमूहम् इव, तारागणं = नक्षत्रसमूहम्, अधारयत् = धृतवत् । रत्प्रेक्षालङ्कारः।
अचिराच्चेति । अचिरात् = अल्पकालेन, सिद्धकन्यकेत्यादिः = सिद्धाः ( देवयोनिविशेषाः ) तेषां कन्यकाभिः (कुमारीभिः) विक्षिप्तानि (विकीर्णानि ) यानि सन्ध्याऽर्चनकुसुमानि ( सायंकालपूजनपुष्पाणि ) तैः शबलम् ( कर्बुरम् ) इव, तारकितं = समुदिततारकम्, वियत् = आकाशं व्यराजत अशोभत । अत्रोत्प्रेक्षाऽलङ्कारः ।
क्षणेनेति । क्षणेन = अल्पकालेन, "अपवगें तृतीये"ति तृतीया उन्मुखेन = ऊर्ध्ववदनेन, मुनिजनेन = तपस्विगणेन, ऊर्ध्वविप्रकीर्णैः = उध्वंम् ( उपरि ) विकीणः ( विक्षिप्तः ), प्रणामाऽञ्जलिसलिल:=प्रणामार्थानि ( नमस्कारप्रयोजनानि ) यानि अञ्जलिसलिलानि ( सम्पुटकरजलानि ),तः, क्षाल्यमान:=प्रक्षाल्यमानः, इव, अखिल:= समस्तः, सन्ध्यारागः = सायङ्काललौहित्यम्, अगलत् = विगलितोऽभवत् । उत्प्रेक्षाऽलङ्कारः ।
सन्ध्यायामिति । सन्ध्यायां = सायवेलायां, क्षयं - नाशम्, उपगतायां प्राप्तायां सत्याम् । तद्विनाशदुःखिता= तस्या: ( सन्ध्यायाः) विनाश: (क्षयः ) तेन दुःखिता ( दु:खयुक्ता), विभावरी ( रात्रिः ), कृष्णाऽजिनं = कृष्णसारमृगचर्म, इव, अभिनवंनतनं, तिमिरोद्गमम् = अन्धकारोदयम्, अवहत् = अधारयत् । उपमाऽलङ्कारः ।
अपहायेति । तिमिरम् = अन्धकारः, मुनिहृदयानि = तपस्विचित्तानि, अपहाय = त्यक्त्वा, अन्यत् = अपरं, सर्व = सकलं, वस्त्वितिशेषः । अन्धकारता=नेत्राऽग्राह्यताम्, अनयत् =प्रापयत् ।
क्रमेणेति । क्रमेण = परिपाटया, रविः = सूर्यः, अस्तं गतः = नाशं प्राप्तः, इति = इत्थम्, उदन्तं = वृत्तान्तम्, उपलभ्य = ज्ञात्वा, अमृतदीधितिः = सुधांशुः, चन्द्र इत्यर्थः । जातवैराग्यः= जातम् ( उत्पन्नम् ), वैराग्यं ( विरक्ति: ) यस्य सः । पक्षान्तरे-उत्पन्नाऽधिकरागः, विशिष्टो रागो शुभ्र यज्ञोपवीतको धारण करनेवाली और भ्रमरसमूहरूप रुद्राक्षमालाको लेनेवाली कमलिनोने मानों सूर्यरूप पतिके समागमके लिए व्रतका आचरण किया। सूर्यके पश्चिम समुद्र के जलमें गिरनेपर आकाशने वेगसे उठे हुए नलकणके समूहके समान तारागणको धारण किया। थोड़े ही समयमें आकाश, सिद्धकुमारियोंसे विखरे गये सन्ध्याकी पूजाके पुष्पोंसे चित्रितके समान ताराओंसे युक्त हो गया। थोड़े ही समय में ऊपर मुख किये हुए मुनियोंसे ऊपर प्रक्षिप्त प्रणामके अञ्जलिजलसे समस्त संध्याका राग ( लालिमा ) मानो प्रक्षालन किये गयेके समान हो गया।
सन्ध्याके क्षीण होनेपर मानों उसके विनाशसे दुःखित रात्रिने कृष्णसार मृगके चर्मके समान अन्धकारके नये आविर्भावको धारण किया। अन्धकारने मुनियोंके हृदयको छोड़कर और सबको अन्धकार भावको प्राप्त करा दिया। क्रमसे सूर्य अस्त हो गये ऐसे वृत्तान्तको प्राप्तकर चन्द्रमाने विशेष लालिमासे युक्त वा वैराग्ययुक्त होकर धोये हुए