________________
महाकवि बाणभट्टकी प्रशस्तियां युक्तं कादम्बरों श्रुत्वा कवयो मौनमाश्रिताः । बाणध्वनावनध्यायो भवतीति स्मृतिर्यतः॥ ( सोमेश्वर, कीर्तिकौमुदी ) जाता शिखण्डिनी प्राग यथा शिखण्डी तथाऽगच्छामि । प्रागल्भ्यमधिकमाप्त बाणी बाणो बभवेति ॥ ( गोवर्द्धन, आर्यासप्तशती) रुचिरस्वरवर्णपदा रसभाववती जगन्मनो हरति । तत्कि तरुणी ? नहि नहि बाणी बाणस्य मधुरशीलस्य ॥ (धर्मदाससूरि, विदग्धमुखमण्डन) वाणीपाणिपरामृष्टवीणानिक्वाणहारिणीम् । भावयन्ति कथं नाऽन्ये भट्टबाणस्य भारतीम् ॥ (गङ्गादेवी ) शश्वद्वाणद्वितीयेन नमदाकारधारिणा। धनुषेव गुणाढ्येन निःशेषो रञ्जितो जनः ॥ (त्रिविक्रमभट्ट, नलचम्पू ) सुबन्धुर्बाणभट्टश्च कविराज इति त्रयः । वक्रोक्तिमार्गनिपुणाश्चतुर्यो विद्यते न वा ॥ ( कविराज, राघवपाण्डवीय ) श्लेषे केचन, शब्दगुम्फविषये केचिद्रसे चाऽपरेऽलङ्कारे कतिचित्सदर्थविषये चाऽन्ये कथावर्णने । आसर्वत्रगभीरधोरकविताविन्ध्याऽटवीचातुरीसञ्चारे कविकुम्भिकुम्भभिदुरो बाणस्तु पञ्चाननः ॥ ( चन्द्रदेवकवि ) "बाणस्य हर्षचरिते निशितामुदीक्ष्यशक्ति न केऽत्र कवितासु मुदं त्यजन्ति । मान्द्यं न कस्य च कवेरिह कालिदास-वाचां रसेन रसितस्य भवत्यष्यम् ॥ वागीश्वरं हन्त भजेऽभिनन्दमर्थेश्वरं वाक्पतिराजमोडे । रसेश्वरं स्तौमि च कालिदासं, बाणं तु सर्वेश्वरमानतोऽस्मि ॥ श्रीहर्ष इत्यवनिवतिष पार्थिवेषु नामेव केवलमजायत, वस्तुतस्तु । गोहर्ष एष निजसंसदि येन राज्ञा संपूजितः कनककोटिशतेन बाणः ॥" (सोड्ढल, उदयसुन्दरी०) हृदि लग्नेन बाणेन यन्मन्दोऽपि पदक्रमः । भवेत्कविकुरङ्गाणां चापलं तत्र कारणम् ॥ ( त्रिलोचनमट्ट ) सहर्षचरितारब्धाद्भुतकादम्बरीकथा। बाणस्य वाण्यनार्येव स्वच्छन्दा भ्रमति क्षितौ ॥ ( राजशेखर ) प्रतिकविभेदनबाणः कवितातरुगहनविहरणमयूरः । सहृदयलोकसुबन्धुर्जयति श्रीबाणभट्टकविराजः ॥ ( वीरनारायणचरित ) "प्रकटरसाऽनुगुणविकटाक्षररचनाचमत्कारितसकलकविकुला बाणस्य वाचः॥ (जयन्तमट्ट, न्यायमञ्जरी) केवलोऽपि स्फुरन्बाणः करोति विमदान्कवीन । किं पुनः क्लप्तसन्धानः पुलिन्दकृतसन्निधिः ॥ (धनपाल, तिलकमञ्जरी ) "हृदयवसतिः पञ्चबाणस्तु बाणः" । ( जयदेव, प्रसन्नराघव ) सचित्रवर्णविच्छित्तिहारिणोरवनीश्वरः । श्रीहर्ष इव संघट्ट चक्रे बाणमयूरयोः ॥ ( नवसाहसाङ्कचरित) दण्डिन्युपस्थिते सद्यः कवीनां कम्पतां मनः । प्रविष्ट त्वन्तरं बाणे कण्ठे वागेव रुद्धचते ॥ (हरिहर )