________________
११८
कादम्बरी मुत्तानित-मुखमङ्गल्या कतिचित् सलिल-बिन्दूनपाययत् । अम्भःक्षोदकृतसेकञ्चोपजातनवीनप्राणमुपतट-प्ररूढ-नवनलिनीदलस्य जलशिशिरायां छायायां निधाय स्वोचितमकरोत् स्नानविधिम् । अभिषेकावसाने चानेकप्राणायामपूतो जपन्नघमर्षणानि प्रत्यग्रभग्नरुन्मुखो रक्तारविन्दैनलिनीपत्त्र-पुटेन भगवते सवित्रे दत्त्वार्घमुदतिष्ठत् । आगृहीत-धौत-धवल-वल्कलश्च सहज्योत्स्न इव सन्ध्यातपः करतल-निर्धूनन-विशद-सट: प्रत्यग्रस्नानार्द्र-जटेन सकलेन तेन मुनिकुमार-कदम्बकेनानुगम्यमानो मां गृहीत्वा तपोवनाभिमुखं शनैः शनैरगच्छत् । आमुक्तः ( परित्यक्तः ) प्रयत्नः (शरीरस्थितिप्रयासः ) येन, तम् । उत्तानितमुखम् = उत्तानितम् (ऊर्वीकृतम् ) मुखं ( वदनम् ) येन तं, तादृशं मां, स्वयम् = आत्मना, आदाय = गृहीत्वा, कतिचित्कांश्चित्, सलिलबिन्दून् = जलपृषतान्, अपाययत् =पीतान् अकारयत् ।
अम्भःजोदेति। अम्भःक्षोदकृतसेकम् = अम्भसः ( जलस्य ) क्षोदः (कणिकामिः ) कृतः ( विहितः ) सेकः ( सेचनम् ) यस्य, तम् । अतएव उपजातनवीनप्राणम् = उपजाता: ( उत्पन्नाः) नवीनाः ( नूतनाः ) प्राणाः असवः ( यस्य ), तम्, मामिति शेषः । उपतटप्ररूढस्य = तटस्य समीपं उपतटं. समीपाऽर्थेऽव्ययीभावः, प्ररूढस्य ( उत्पन्नस्य)। ननवलिनीदलस्य = नवा (नुतना ) या नलिनी ( पद्मिनी ) तस्या दलस्य (पत्त्रस्य )। जलशिशिरायां - जलेन (सलिलेन ) शिशिरायां ( शीतलायाम् ) छायायाम् ( अनातपे ), निधाय =स्थापयित्वा । स्वोचितं =स्वस्य (आत्मनः ) उचितं ( योग्यम् ), स्नानविधि - मज्जनविधानम् । अकरोत् = व्यदधात् ।
अभिषेकाऽवसान इति । अभिषेकाऽवसाने = अभिषेकस्य (स्नानस्य) अवसाने ( अन्ते ), च अनेकप्राणायामपूतः = अनेके ( बहवः ) ये प्राणायामाः (पूरकादीनि योगस्य चतुर्थाङ्गानि ), त: पूतः ( पवित्रः ) सन्, अघमर्षणानि = अघं मृष्यन्तीति, ल्युट = पापनाशकान् “आयङ्गो"रित्यादि मन्त्रान्, “सर्वेनसामपध्वंसि जप्यं त्रिष्वघमर्षणम् ।" इत्यमरः । जपन् = जपं कुर्वन् । उन्मुखःऊर्ध्ववदनः सूर्योन्मुखः सन्नितिभावः । प्रत्यग्रमग्नः = सद्योऽवचितैः, रक्ताऽरविन्दैः= रक्तकमलः, नलिनीपत्त्रपुटेन = नलिन्याः ( कमलिन्याः ) पत्त्रपुटेन ( दलपुटेन, आधारभूतेनेतिभावः ) । भगवते - षड्विधेश्वर्यसम्पन्नाय, सवित्रे = सूर्याय, अर्घ = पूजां, दत्त्वा = वितीयं, उदतिष्ठत् = उत्थितः ।।
आगहोतेति । आगृहीतं ( स्वीकृतं, स्नानाऽनन्तरमिति शेषः ), धौतं (क्षालितम् ) धवलं ( शुक्लम् ) वल्कलं ( वल्कम् ) येन सः । अत एव सहज्योलः = ज्योत्स्नया (चन्द्रिकया) सहितः "तेन सहेति तुल्ययोगे" इति तुल्ययोगबहुव्रीहिः, "वोपसर्जनस्ये" त्यनेन विकल्पत्वात्सहस्य सादेशाऽभावः । सन्ध्यातप इव = सायङ्कालिकद्योत इव । करतलेत्यादिः = करतलेन (हस्ततलेन ) यत् ( निर्धननं ( सञ्चालनम् ) तेन विशदा (निर्मला ) सटा (जटा ) यस्य सः। प्रत्यग्रस्नानाऽऽद्रजटेन = प्रत्यग्रं ( सद्यः सम्पन्नम् ) यत् स्नानं ( मज्जनम् ) तेन आर्द्रा (क्लिन्ना ) जटा ( सटा) यस्य, तेन । सकलेन = समस्तेन तेन = पूर्वकथितेन, मुनिकुमारकदम्बकेन = ऋषिसुतसमूहेन, अनुगम्यमानः= अनुस्रियमाणः सन्, मां गृहीत्वा = आदाय, शनैः- मन्दं मन्दं, तपोवनाऽभिमुखं = स्वाश्रमसम्मुखम्, अगच्छत् = गतः ।
लेकर ऊँगलीसे कुछ जलबिन्दुओंको पिलाया। जलबिन्दुओंसे सेचन किये गये और उत्पन्न नये प्राणोंवाले मुझको किनारेके समीप उत्पन्न नये कमलिनीके पत्तोंकी जलसे ठण्डी छायामें रखकर अपने योग्य स्नानकी विधिको कर लिया। स्नानकी समाप्तिमें अनेक प्राणायामोंसे पवित्र होकर पवित्र अघमर्षण मन्त्रोंको जपते हुए ऊपर मुखकर तत्क्षण तोड़े गये लाल कमलोंसे कमलिनीके दोनोंसे भगवान् सूर्यको अर्घ देकर उठ गये। सफेद और धोये गये वल्कलको लेकर चांदनीवाले सन्ध्याके सूर्यप्रकाशके समान होकर हाथोंसे फटकारनेसे उज्ज्वल जटावाले वे सद्यः स्नानसे आई जटावाले समस्त उन मुनिकुमारोंसे अनुगत होते हुए मुझे लेकर धीरे-धीरे तपोवनके पास चले गये।