________________
कादम्बरी
मिवैकत्र समागतम्, अनेक - दण्डकारण्यवासि - मुनिजन - शाप - सार्थमिव सञ्चरन्तम्, अनवरत शरनिकर-वर्ष - राम-निहत-खर-दूषण - बलनिवहमिव तदपध्यानात् पिशाचतामुपगतम्, कलिकालबन्धुवर्गमित्र सङ्गतम्, अवगाहप्रस्थितमिव वनमहिषयूथम्, अचल-शिखर-स्थित-केसरि-कराकृष्टि - पतन विशीर्णमिव कालाभ्रपटलम् अखिलरूप - विनाशाय धूमकेतुजालमिव समुद्गतम्, अन्धकारितकाननम्, अनेकसहस्रसंख्यम्, अतिभयजनकम्, उत्पात - वेतालव्रातमिव शबरसैन्यमद्राक्षम् ।
अन्तकेति । परिभ्रमन्तं = परिभ्रमणं कुर्वन्तम्, अन्तकपरिवारम् इव = यमपरिजनम् इव । उत्प्रेक्षाऽलङ्कारः । अवदारितेति । अवदारितरसातलोद्भूतम् = अवदारितं ( भेदितम् ) यत् रसायाः ( पृथिव्याः ) तलम् ( अधोभाग:, पातालमित्यर्थः ) तस्मात् उद्भूतं ( प्रकटीभूतम् ) दानवलोकम् इव = दनुसन्तानसमूहम् इव, उत्प्रेक्षा । अशुभेति । एकत्र = एकस्मिन् स्थाने, समागतं = संमिलितम्, अशुभकर्म समूहम् इव = पापकार्यंसमुदायम् इव, उत्प्रेक्षा । अनेकेति । संचरन्तं = भ्रमन्तम् । अनेकेत्यादि : ० = अनेके ( बहव: ) दण्डकारण्यवासिन: ( दण्डकवनवासशीलाः ) ये मुनिजना: ( तापसलोकाः ) तेषां शापसार्थम् इव = = दुरेषणावाक्यसमूहम् इव, उत्प्रेक्षा ।
अनवरतेति । तदपध्यानात् = तस्य ( रामस्य ) अपध्यानात् ( दुश्चिन्तनात् ) पिशाचतां = भूतविशेषभावम् उपगतं = संप्राप्तम्, अनवरतेत्यादि: ० = : अनवरतं ( निरन्तरम् ) ये शरनिकरा: ( बाणसमूहाः ) तद्वर्षी ( तद्वर्षणशीलः ) यो रामः ( श्रीरामचन्द्रः ) तेन निहतो ( व्यापादितो ) यौ खरदूषणौ ( तदाख्यराक्षसविशेषौ ), तवोः बलनिवहम् इव ( सेनासमूहम् इव ), उत्प्रेक्षा ।
कलिकालेति । एकत्र = एकस्मिन् स्थाने, संगतं = मिलितम्, कलिकालबन्धुवर्गम् इवकलिकालस्य ( कलियुगस्य ) बन्धुवर्गम् ( बान्धवसमूहम् ) इव, उत्प्रेक्षा । अवगाहेति । अवगाहप्रस्थितम्=अवगाहः ( मज्जनम् ) तदर्थं प्रस्थितं ( कृतप्रस्थानम् ), वनमहिषयूथम् = अरण्यसैरिमसमूहम्, इव । उत्प्रेक्षाऽलङ्कारः ।
अचलेति । अचलशिखरेत्यादिः ० = अचलशिखरे ( पर्वतशृङ्गे ) स्थितः ( विद्यमानः ) यः केसरी ( सिंहः ) तस्य कराभ्याम् ( हस्ताभ्याम् ) या आकृष्टि : ( आकर्षणम् ) तया यत् पतनं ( भ्रंशः, भूमाविति शेषः ) तेन विशीर्णम् ( संजातविशरणम् ), कालाऽभ्रपटलं = कृष्णमेघसमूहम्, इव, उत्प्रेक्षा ।
अखिलेति । अखिलरूपविनाशाय = अखिलरूपाणां ( समस्तारण्यकपशूनाम् ) विनाशाय (संहाराय ), समुद्गतं ( समुत्थितम् ) धूमकेतुजालम् = उत्पातसूचकग्र हसमूहम्, इव, उत्प्रेक्षा । “रूपं मृगेपि विज्ञेयम्" इति हलायुधः । “धूमकेतुः स्मृतो वह्नावुत्पातग्रहभेदयोः ।" इति विश्वः । अन्धकारितम् ( जाताऽन्धकारम् ) अथवा – अखिलरूपविनाशाय = समस्तसौन्दर्यविघाताय समुद्गतं, धूमकेतुजालम् = घूमरूपध्वजसमूहम् इव, उत्प्रेक्षा ।
अन्धकारितेति । अन्धकारितऽकाननम् - अन्धकारितम्
सञ्जाताऽन्धकारम् ) काननं प्रकट दानवसमूहके तुल्य, एक स्थान में संमिलित पापकर्म के समूह के सदृश । सञ्चरण करनेवाले, अनेक दण्डकारण्यवासी मुनिजन के शाप समूहके समान, रामचन्द्रके अशुभचिन्तनसे पिशाचभावको प्राप्त, लगातार बाणोंको बरसानेवाले रामचन्द्रसे मारे गये खर और दूषण राक्षसांके सैन्यसमूहके सदृश, एक स्थालमें मिले हुए कलियुगके बन्धुवर्ग के समान, स्नानके लिए प्रस्थान करनेवाले जङ्गली भैंसोंके झुण्डके सदृश, पहाड़की चोटीमें स्थित सिंहके हाँथोंसे खींचनेसे गिरकर बिखरे गये काले मेघसमूहके समान, समस्त पशुओं के नाशके लिए उठे हुए उत्पातसूचक ग्रहसमूहके सदृश ( समस्त सौन्दर्य के विनाशके लिए धूमरूप ध्वजसमूह के सदृश ), वनको अन्धकारयुक्त करनेवाले हजारों संख्यासे युक्त, अतिशय भयको उत्पन्न करनेवाले, उत्पात करनेवाले वेतालोंके समूहके समान शबरों के सैन्यको मैंने देखा ।