________________ में समतासागरचरितम् -goragarikaawari- 145 4 146 kapoorrigat- समतासागरचरितम् अथ प्रशस्तिः / नमोऽस्त्वाद्यजिनेन्द्राय, नमो प्रथमसाधवे / नमोऽस्त्वाद्यनरेन्द्राय, ऋषभस्वामिने नमः / / 1 / / नमोऽस्तु शान्तिनाथाय, लोकप्रद्योतकारिणे / मन्दरसमसत्त्वाय, केवलज्ञानधारिणे / / 2 / / नमोऽस्तु लोकनाथाय, सर्वज्ञसर्वदर्शिने / नमो लोकप्रदीपाय, श्रीनेमिस्वामिने नमः / / 3 / / नमोस्तु पार्श्वनाथाय, कर्मरिपुविदारिणे / भगवते जिनेन्द्राय, मोहान्धकारभास्वते / / 4 / / श्रीमद्वीरजिनेशाय, नमोऽस्त्वभयदायिने / नमो पुरुषसिंहाय, नमो शरणदायिने ||5|| श्रीप्रेममुनिनाथाय नमो प्रशांतमूर्तये / दानमुनिपशिष्याय सिद्धान्तपारगामिने / / 6 / / नमो तच्छिष्यरत्नाय, दक्षाय देशनाविधौ / तपोगुणप्रधानाय, सूरिभुवनभानवे / / 7 / / तत्क्रमपद्मभृङ्गाय, पंन्यासप्रवराय च / गुरुप्रसादपात्राय, श्रीपद्माय नमो नमः / / 8 / / नमोऽस्तु गुरुभक्ताय, शास्त्ररहस्यवेदिने / वर्तमानगणेशाय, जयघोषमुनीन्द्राय / / 9 / / मुनिप्रधानसङ्घाय, दुर्गतिदुःखनाशिने / नमोऽस्तु जिनवन्द्याय, सुगतिसुखदायिने / / 10 / / जिनधर्म नमस्यामि, यो धारयति देहिनः / दुर्गतिपततो नित्यं, स्थापयति च सद्गतौ / / 11 / / भवोदधिपतज्जन्तोः पोतनिभं तु तारणे / शासनमर्हतां स्तौमि, सर्वक्लेशविनाशकम्।।१२।।। भवाटवीभ्रमत्प्राणिनिर्वाणपूरलम्भने / सार्थवाहसमं वन्दे, जिनप्रवचनं सदा / / 13 / / शल्यकर्तनदक्षं श्रीजिनतीर्थ नमामि च / सिद्धिमार्ग सदा सर्वदुःखप्रक्षीणपद्धतिम् / / 14 / / अल्पज्ञेन मया देवगुरुधर्मप्रभावतः / चरित्रमिति शब्दस्थीकृतं हेमेन्दुसूरिणा / / 15 / / एतद्विरचनेनाप्तं सुपुण्यं मयका तु यत् / तेन क्लेशविमुक्ताः भवन्तु निखिलजन्तवः / / 16 / / समाप्तमिदं समतासागरचरितम् (पन्न्यासश्रीपद्मविजयचरितम्)। 5555