SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ 4 अथ ग्रन्थप्रकाशकप्रशस्तिः (शार्दूलविक्रीडितम्) पादाङ्गुष्ठसुचालितामरगिरिर्हस्तास्तदेवस्मयः, जिह्वाखण्डितशक्रसंशयचयो, वाइनष्टहालाहलः । सर्वाङ्गीणमहोपसर्गदकृपा-नेत्राम्बुदत्ताञ्जलिः, दाढादारितदिव्ययुत्समवतात्-श्रीवर्धमानो जिनः ।।१।। (उपजातिः) श्रीगौतमस्वामि-सुधर्मदेव-जम्बूप्रभु-श्रीप्रभवप्रमुख्याः । सुरीशपूजापदसूरिदेवा, भवन्तु ते श्रीगुरवः प्रसन्नाः ।।२।। (वसन्ततिलका) एतन्महर्षिशुचिपट्टपरम्पराजान् आनन्दसूरिकमलाभिधसूरिपादान् । संविग्नसन्ततिसदीशपदान् प्रणम्य, श्रीवीरदानचरणांश्च गुरुन् स्तविष्ये ।।३।। श्रीदानसूरिवरशिष्यमतल्लिका स, श्री प्रेमसूरिभगवान् क्षमया क्षमाभः । सिद्धान्तवारिवरवारिनिधिः पुनातु, चारित्रचन्दनसुगन्धिशरीरशाली ।।४।। (शार्दूलविक्रीडितम्) प्रत्यात्रिशतर्षिसन्ततिसरित्-स्रष्टा क्षमाभृद्महान्, गीतार्थप्रवरो वरश्रुतयुतः सर्वागमानां गृहम् । तर्के तर्कविशुद्धबुद्धिविभवः सोऽभूत् स्वकीयेऽप्यहो, गच्छे संयमशुद्धितत्परमतिः प्रज्ञावतामग्रणीः ।।५।। तत्कालीनकरग्रहग्रहविधा-वब्दे ह्यभूद् वैक्रमे, तिथ्याराधनकारणेन करुणो भेदस्तपागच्छजः | कारुण्यैकरसेन तेन गुरुणा सत्पट्टकादात्मनो, बवड्शेन निवारितः खकरखौ-प्ठे पिण्डवाडापुरे ।।६।। (वसन्ततिलका) तत्पट्टभृद् भुवनभान्वभिधश्च सरिः, श्रीवर्धमानसुतपोनिधिकीर्तिधाम । न्याये विशारद इतीह जगत्प्रसिद्धो, जातोऽतिवाक्पतिमति-मतिमच्छरण्यः ।।७।। तस्याद्यशिष्यलघुबन्धुरथाजबन्धु तेजास्तपाश्रुतसमर्पणतेजसा सः । पंन्यासपद्मविजयो गणिराट् श्रियेऽस्तु, क्षान्त्येकसायकविदीर्णमहोपसर्गः ।।८।। सर्वाधिक श्रमणसार्थपतिर्मतीशः पाता चतुःशतमितर्षिगणस्य शस्यः । गच्छाधिनाथपदभृज्जयघोषसूरिः 'सिद्धान्तसूर्य' यशसा-जयतीह चोच्चैः ।।९।। सबुद्धिनीरधिविबोधनबद्धकक्षः, वैराग्यदेशनविधौ परिपूर्णदक्षः । सीमन्धरप्रभुकृपापरपात्रमस्तु | श्रीहेमचन्द्रभगवान् सततं प्रसन्नः ।।१०।। कारुण्यकम्रालयानां महनीयमुख्यानां महोमालिनां लोकोपकारचतुराणां वैराग्यदेशनादक्षाचार्यदेव-श्रीमद्विजयहेमचन्द्रसूरीश्वराणां सदुपदेशेन सङ्घवी अम्बालाल रतनचन्द जैन धार्मिक ट्रस्टेन: प्रकाशितमिदं ग्रन्थरत्नं श्रुतभक्तितः । वि. सं. २०६४ वि ...
SR No.009543
Book TitleSamta Sagar Charitam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2004
Total Pages80
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy