SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ NM 40% ग्रन्थोत्पत्तिस्थानम् भयङ्करकेन्सरव्याधौ यदा पूज्यपद्मविजयानां वानरुद्धा । तदा ते लिखित्वा वाचनाः प्रेरणाश्च दत्तवन्तः । तासां वाचनाप्रेरणानां पुस्तिका मत्सकाश आसीत् । सा 'साधुतानो उजास' नाम्ना प्रकाशिता, तत्राऽग्रे पूज्यानां संक्षिप्तचरित्रस्य लेखनं प्रारब्धम् । परन्तु तदतिविस्तृतं जातम् । अतः स्वतन्त्रपुस्तकरुपेण तचरित्रमत्र प्रकाश्यते । साध्वीश्रीहंसकीर्तिश्री: अमदावाद (पूज्यानां सांसारिकभगिनी) पंन्यासपद्मविजयानां जीवनपरिचयः नाम :पू. पं. पद्मविजयगणिवराः । सांसारिकनाम : पोपटलालः । जन्मतिथि: : आषाढशुक्ल ६, वि.सं. १९६९ । जन्मस्थलम् : अमदावादः । मातृनाम :भूरीबेन । पितृनाम : चीमनभाइ। भ्रातरः : शांतिभाइ, कान्तिलाल (पू. गच्छाधिपति आ. श्रीमद्विजय भुवनभानुसूरीश्वराः), चतुरभाइ, जयन्तीभाइ (मुनि तरुणविजयः) भगिन्यः शारदाबेन, वसुबन, बबीबेन । (सा.हंसकीर्तिश्रीः) । दीक्षातिथिः : पोष शुक्ल १२, वि.सं. १९९१ । दीक्षास्थलम् चाणस्मा । उपस्थापनातिथिः : माघ शुक्ल १०, वि.सं. १९९१ ।। उपस्थापनास्थलम् : चाणस्मा प्रगुरुदेवः : पूज्यपाद-आचार्य-श्रीमद्विजय प्रेमसूरीश्वराः । गुरुदेवः : मुनिश्री भानुविजयः । गणिपदप्रदानतिथि: : फाल्गुन शुक्ल १२,वि. सं. २०१२। गणिपदप्रदानस्थलम् : पूना । पंन्यासपदप्रदानतिथिः : वैशाखशुक्ल ६, वि. सं. २०१५ । पंन्यासपदप्रदानस्थलम् : सुरेन्द्रनगरम् । स्वर्गमनतिथि: श्रावणकृष्ण ११, वि.स. २०१७ । स्वर्गमनस्थलम् :: पिण्डवाडा । आयुः :४८ अब्दाः । संयमपर्यायः :२६ अब्दाः । नूनं ! यद्रत्नं शासनोन्नतिकृत आवश्यकमासीत्तद्रत्नं कालराजेनाकस्मादाक्षिप्तम्। तस्य नररत्नस्य गमनेनाद्य समुदायस्य शासनस्य च महती हानिर्जाता। तेषामनेकगुणोपकारवात्सल्यभावा । अविस्मरणीयाः । तेषामनन्तोपकाराः प्रत्युपकर्तुमशक्याः । भङ्करव्याधौ तेषां समतासमाधी साधकजीवनकृत आदर्शदृष्टांतरुप आस्ताम् । अस्माभिः कृता तेषां प्रभूताऽप्यनुमोदनाऽल्पैव ।
SR No.009543
Book TitleSamta Sagar Charitam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2004
Total Pages80
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy