________________
समतासागरचरितम् 443
४३
राणां सुविशालपरिवाराणां चातुर्मासं सुरेन्द्रनगरे कारणीयम्, चातुर्मास एवोभयतपस्विमहात्मानौ शततमौलिं प्रारभेताम् ततश्च महोत्सवपूर्वकं तयोः पारणकं कारणीयम् । एतत्कृते सुरेन्द्रनगरसङ्घः पूज्यप्रेमसूरीश्वरान्विज्ञप्तिं कर्तुमागच्छत् । किन्तु कारणवशात् पूज्यपादैर्मुम्बापुर्यां चातुर्मासं कृतम् ।
वि.सं.२०१२ वर्षे पूज्यप्रेमसूरीश्वरपूज्यभानुविजयानां चातुर्मासं लालबागोपनगरेऽभवत् । दादरसङ्घस्त्वेतदवसरमसाधयत् । अत्याग्रहपूर्णविज्ञप्त्या दादरसङ्घेन पूज्यपद्मविजयानां चातुर्मासं दादरमध्ये कारितम् । चातुर्मासे पूज्यप्रेमसूरीश्वरैरासन्नपञ्चविंशतयः साधवः संयमशोभनसंस्करणकृते पूज्यपद्मविजयैः सह प्रेषिताः । पूज्यपद्मविजयैरप्यप्रमत्तभावेन सारणावारणादिकं कृत्वा साधुषु संयमशोभनसंस्कारसेचनं कृतम् । तेषां वात्सल्यनिर्भरप्रेरणाभिः साधवो नित्यमेकाशनं कृतवन्तः । तेन सह ते स्वाध्यायवैयावृत्त्यविनयादिसर्वयोगेषु कुशला सञ्जाताः । तैः श्रावकेभ्योऽपि मधुरवैराग्यरसयुक्तोपदेशवाण्या सत्तत्त्वज्ञानं परिवेषितम् । तेषां वाण्या श्रावकाः जिनशासनं प्रति दृढानुरागवन्तः सञ्जाताः, सिद्धान्तेषु दृढाः सञ्जाताः देवगुरूणां भक्ताः सञ्जाताः, क्रियारुचयश्चाऽभवन् । किञ्च श्रावकैर्वर्धमानतपोऽपि प्रारब्धम् ।
वि.सं.२०१२ वर्षे लालबागमध्ये पूज्यप्रेमसूरीश्वराणां चातुर्मासं शासनप्रभावनापूर्वकं सम्पन्नम् । इतो दादरमध्य उपधानतपःकारणस्य निर्णयो जातः । ततश्चातुर्माससमात्यनन्तरं तैः स्वीयविशालपरिवारेण सह दादरमध्ये आत्म
समता सागरचरितम् कमललब्धिज्ञानमन्दिरे पादाववधृतौ । तत्र मालारोपणप्रसङ्गोऽपि भव्यतया सम्पन्नोऽभवत् ।
इतः पूज्यपन्न्यासकान्तिविजयमुनिराजविजयौ शततमौलिपूर्णाहुतिनिमित्तं पूज्यप्रेमसूरीश्वरनिश्रामत्यातुरतया काङ्क्षन्तावास्ताम् । ततः चातुर्माससमाप्त्यनन्तरं पूज्यप्रेमसूरीश्वरैः मुम्बापुर्याः सुरेन्द्रनगरं प्रति विहारः प्रारब्धः । व मुंबापुरी क्व च सुरेन्द्रनगरम् ? तथापि तद्विहारेऽपि पूज्य - पद्मविजयाः पूज्यप्रेमसूरीश्वरैः सहैवाऽचलन् । ते स्वीयं शरीरमिषदपि न चिन्तितवन्तः । पूज्यप्रेमसूरीश्वराणां चलनवेगः स्वभावेन मन्द आसीत् । तथापि पूज्यपद्मविजयाः मन्दगत्या तैः सममेवाऽचलन् । प्रायो नववादने दशवादने वा ते स्थानं प्राप्नुवन् । ततो बृहन्नगरेषु स्वागतयात्रा निरगच्छत् । तत उपाश्रयप्रवेशे प्रवचनवर्षाऽभवत् । द्वादश-वादनमेकवादनं वा स्वभावेनाजायत । ततो यतयो गोचर्यर्थ निरगच्छन् भोजनं चाऽकुर्वन् । पूज्यपद्मविजया औषधमपि एकवादनपश्चादेवागृह्णन् । ते विहारेऽपि प्राय एकाशनान्येव कृतवन्तः । तत्रापि समुद्देशनमण्डल्यां साधून्परिवेष्यैव ते स्वयं भोजनार्थमुपाविशन् । एकं प्रसङ्गं दर्शयामि ।
वडोदरानगरे पूज्यप्रेमसूरीश्वराः चिरादागताः । ततः श्रीसङ्घोऽतीवोत्साहितोऽभवत् । पूज्यप्रेमसूरीश्वराः शनैः शनैः विहरन्द्वादशवादने वडोदराबहिः प्राप्ताः । ततः स्वागतयात्रया सह नगरे परिभ्रम्य सार्धैकवादन उपाश्रयं ते प्राप्ताः । पूज्यपद्मविजयैः प्रभावकवाण्या प्रवचनं श्रावितम् । सार्धद्विवादने
४४