SearchBrowseAboutContactDonate
Page Preview
Page 2
Loading...
Download File
Download File
Page Text
________________ # दिव्यकृपावर्षयितारः ॥ सिद्धान्तमहोदधि-पूज्यपादाचार्यदेवश्रीमद्विजय-प्रेमसूरीश्वराः, न्यायविशारद-पूज्यपादाचार्यदेवश्रीमद्विजय-भुवनभानुसूरीश्वराः, समतासागर-पूज्यपाद-पंन्यासप्रवरश्रीपद्मविजयगणिवराः । शुभाशीर्वाददातारः ॥ गच्छाधिपति-पूज्यपादाचार्यदेवश्रीमद्विजय-जयघोषसूरीश्वराः * प्रकाशकीयम् * स्व. पूज्यपादाः पंन्यासश्रीपद्मविजयगणिवरा अस्माकमनन्तोपकारिण आसन्। ते शासनरत्नमासन्। वीरयोधैरिव तैः। परीषहोपसर्गसैन्येन सह युवा संयमजीवनं सफलीकृतम्। तेषामिदं सक्षिप्तं चरित्रं वयं सहर्ष प्रकाशयामः। अत्रैचरित्रविषयकं कमपि विशेषं लिखितुं नेच्छामः। वाचकवर्ग एतचरित्रपठनेनैव तं ज्ञास्यति। जिनशासनवर्तमानकालीनश्रेष्ठसाधकेषु पूज्यानामन्तर्भावकरणेऽतिशयोक्तिर्न स्यात्किन्त्वल्पोक्तिरेव स्यात्। इदं चरित्रं पूज्यानां घोरोगसाधनाविषयकमस्ति, यत्पठनेन यूयं रोमाञ्चिता भविष्यथ, आत्मन्यलौकिकभावाननुभविष्यथ, आराधनाकरणे बलं लप्स्यध्वे, युष्माकंप्रमादा दूरीभविष्यन्ति। महारोगेषु त्वेतचरित्रमत्यन्तमाश्वासनं भूत्वाऽऽराधनामार्ग दर्शयिष्यति। वयं विज्ञपयामो यदेतन्चरित्रं केवलं सकृदेव न पठनीयं किन्त्वनेकशः पठनीयमन्याँश्च पाठनीयम्। अत्र यूयं कलिकालेऽतीवाशक्यां साधनां द्रक्ष्यथ । चतुर्थारकमुनिपराक्रमान्यूयमेतत्काले द्रक्ष्यथ। पूज्यान्प्रति युष्माकं बहुमानभावोऽतिशयेन वय॑ते। अद्यापि जिनशासन ईदृशान्यनेकरत्नानि सन्तीति ज्ञात्वा युष्माकं बीजवपनं भविष्यति। पूज्यान्भावेन वन्दित्वाऽस्माकं वक्तव्यं समापयामः। लि. सङ्घवी अम्बालाल रतनचन्द जैन धार्मिक ट्रस्ट ट्रस्टिगणः ताराचन्द अम्बालाल शाह धरणेन्द्र अम्बालाल शाह पुण्डरिक अम्बालाल शाह उपेन्द्र ताराचन्द शाह मुकेश बन्सीलाल शाह भावपूर्णा वन्दनाः । अस्मत्कुलात्प्रव्रज्य शासनं प्रकाशयन्तः पूज्याः पूज्यपाद-आचार्यदेव-श्रीमद्विजय-हेमचन्द्रसूरीश्वराः पूज्यपाद-प्रवर्तीनी-श्रीरञ्जनश्रीशिष्याप.पू. प्रवर्तिनी श्रीवसन्तप्रभाश्री: पूज्यपाद-प्रवर्तीनी-श्रीइन्द्रश्रीशिष्याप.पू. साध्वी श्रीस्वयम्प्रभाश्रीः पूज्यपाद-प्रवर्तीनी-श्रीवसन्तप्रभाश्रीशिष्याप. पू. साध्वी श्रीदिव्ययशाश्रीः
SR No.009543
Book TitleSamta Sagar Charitam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2004
Total Pages80
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy