________________
10
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् श्रीजैनशासनवनीनवनीरवाहः, श्रीमांस्ततोऽप्यघहरो हरिभद्रसूरिः ।
विद्यामदोन्मदगदेष्वनवद्यवैद्यः, ख्यातस्ततो विजयसेनमुनीश्वरोऽयम् ॥२५॥ [ वस्तुपालस्य जिज्ञासा]
कदाचिदेष मन्त्रीशः, कृतप्राभातिकक्रियः । गत्वा पुरो गुरोस्तस्य, नत्वा विज्ञो व्यजिज्ञपत् ॥२६॥ भगवन्नयमेकोऽपि, मर्त्यजन्ममहीरुहः । चतुःप्रकारः किं नाम, प्राणिभेदेन भासते ? ॥२७॥ अवकेशी यदेकेषां, केषाञ्चिद् विषभूरुहः । किम्पाकतरुरन्येषां, परेषां कल्पपादपः ॥२८॥ तदत्र कारणं किञ्चिदभिरूपं निरूप्यताम् । कारणानां हि नानात्वं, कार्यभेदाय जायते ॥२९॥ अथोवाच गुरुः साधु, विज्ञ ! जिज्ञासितं त्वया । इदं सकर्ण ! निर्णीतं, सर्वं सर्वविदागमे ॥३०॥ सुकृतं न कृतं किञ्चिद् , यैः प्रमादपरैः पुरा । तेषां त्रिवर्गशून्यानां, दीनानां जन्म निष्फलम् ॥३१॥ तमोमयैः पुनर्बद्धं, पापं पापानुबन्धि यैः । तत् तेषां सौनिकादीनां, परत्रेह च दुःखदम् ॥३२॥ रजस्तमोमयैश्चक्रे, पुण्यं पापानुषङ्गि यैः । तत् तेषां म्लेच्छपादीनां, नरकान्तसुखप्रदम् ॥३३॥ पुण्यानुबन्धबन्धूनि, सुकृतानि कृतानि यैः । दत्ते मानुषजन्मैषां, परत्रेह च वाञ्छितम् ॥३४॥ अथाऽऽह मन्त्री पूज्यास्तत् , कथयन्तु यथागमम् । पुण्यानुबन्धबन्धूनां, सुकृतानां निबन्धनम् ॥३५॥
जगदुर्गुरवो मन्त्रिन् !, श्रूयतां तद् यथागमम् । 25 यद् विधातव्यमव्यग्रश्लोकैर्लोकोत्तरैनरैः ॥३६॥
दान-शील-तपो-भावभेदभिन्नं चतुष्टयम् । पुण्यानुबन्धिपुण्यानां, निबन्धनमिदं विदुः ॥३७॥
15
२०
१. धत्ते खंता० ॥
D:\maha-k.pm5\2nd proof