________________
[१८७
अष्टमः सर्गः]
अथाकथ्यत सर्वेषां, तेषां गूढचरैश्वरैः । वाहरत्नस्य माहात्म्यं, तस्य तेजोमयाकृतेः ॥६१६।। भूनाथस्याथ कस्यापि, मन्त्री प्राह ससाहसः । तं वाहमहमानेष्ये, नचिराच्चौर्यचर्यया ॥६१७।। इति प्रतिज्ञां स प्राज्ञम्मन्यः कृत्वा नृपाज्ञया । श्रावकारम्भदम्भेन, प्रचचाल घनैर्घनैः ॥६१८॥ श्रीवसन्तपुरे तत्र, गत्वा श्रावकतत्त्ववित् । वक्रेच्छो रचयाञ्चक्रे, स चैत्यपरिपाटिकाम् ॥६१९॥ स श्रद्धावानिव श्राद्धसद्मसु च्छद्मसुस्थितः । जिनार्चाभ्यर्चनं कुर्वन् , जिनदासगृहं गतः ॥६२०॥ तन्वानस्तीर्थनाथस्य, पूजामथ यथाविधि । स्वावासे जिनदासेन, सानन्देनाभिनन्दितः ॥६२१॥ अथ भक्तिपथन्यस्तमनाः सम्मानतो मतः । तं साधर्मिकवात्सल्याज्जिनदासोऽवदन्मुदा ॥६२२॥ अद्यानवद्यजैनेन्द्रधर्मसम्बन्धबान्धव ! । भोजनेन विधेहि त्वं, मम धाम्नि पवित्रताम् ॥६२३।। विनेत जिनदासेऽस्मिन्नतिभक्त्या वदत्यपि । अनिच्छन्निव तस्थौ स, कार्य पूर्णमिति स्मरन् ॥६२४।। अथासौ गाढमभ्यर्थ्य, भोजितो भक्तिपूर्वकम् । स्वावासे जिनदासेन, निशायामपि वासितः ॥६२५।। केनापि सुहृदा श्रेष्ठी, जिनदासोऽप्यनीयत । महोत्सवजुषा सौधे, निजे स्थापयितुं निशाम् ॥६२६॥ असावथ निशीथिन्यामुत्थित कूटधार्मिकः ।। आशु तं वाहमारुह्य, निःससार त्वरातुरः ॥६२७।।
१. 'ढतरै खंता० पाता० ॥ २. तो नतः खंता० पाता० ॥ ३. °स्मिन्निति खंता० पाता० ॥
D:\maha-k.pm5\2nd proof