________________
चतुर्थः सर्गः ]
स स्वयं दान-सम्मानपूरितार्थिमनोरथः । त्वत्प्रणामान्न नामान्यज्जगन्मान्यः समीहते ॥२१८॥ धीरा न चित्ते वित्तेष्टं चेष्टन्ते किन्तु तेजसे । मुक्तापङ्क्तिधिया हन्ति, सिंहः किं हस्तिमस्तकम् ? ॥२१९॥ भ्राता ममायं भूभर्ता, मास्म भूरिति निर्भयः । राज्ञामाज्ञाधनानां हि, ज्ञातेयं क्वोपयुज्यते ? ॥२२०|| समन्युरथ तं वीरं मन्यस्त्वमवमन्यसे । भासि भास्वति तत् तस्मिन्नुद्यत्खद्योतपोतवत् ॥२२१|| पुत्रस्त्वमपि नाभेयप्रभोर्भरतवत् ततः ।
कुलप्रभुरसि स्वामिन् !, हितं जल्पामि तत् तव ॥२२२॥ करालगरलः सर्पः, पावकः पवनोद्धतः । प्रभुः प्रौढप्रतापश्च, विश्वास्या न त्रयोऽप्यमी ॥२२३॥ जीवितव्येन राज्येन, कार्यं तद् विद्यते यदि । तदा रक्षौषधं मूर्धिन, धार्यतां भ्रातृशासनम् ॥ २२४॥ नित्यं वितन्यते यत्र, सेवा देवा - ऽसुरैरपि । भवतो मर्त्यमात्रस्य, सेवायां तत्र का त्रपा ? ॥२२५॥ $$ एवं वदति दूतेऽत्र, सुनन्दानन्दनः स्वयम् । बाहुं विलोकयामास, रोमाञ्चकवचाञ्चितम् ॥२२६॥ अवोचदधरज्योतिर्मिश्रदन्तांशुदम्भतः ।
कोपपाटलितां साक्षादिव वाचं धराधवः ॥२२७॥ " ज्यायानयं मम भ्राता, यदीच्छथि समागमम् । युक्तं यदेष तातस्य, तुल्यः पूज्यो हि सर्वथा ॥२२८॥ युक्तं तदपि यत् प्रैषीत्, प्रभुस्ते भरतेश्वरः । आकारणानि बन्धूनां, गुरोः कृत्यमिदं यतः ॥२२९॥ तेषु तातानुयातेषु स्वयं यत्त्वेष ते विभुः । तेषां राज्यानि जग्राह स्नेहोऽयं दूत ! नूतनः ॥ २३०॥ १. नोद्धुरः । प्रभुः खंता० पाता० ॥
D:\maha-k.pm5 \ 2nd proof
[ ९५
5
10
15
20
25