________________
5
10
15
20
25
६४ ]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम्
पञ्चवर्णसुमस्तोमसर्वाङ्गीणविभूषणाः । विरेजुर्जङ्गमाः कामशस्त्रशाला इव स्त्रियः ॥१९०॥ सुस्थितैर्मिथुनैरित्थं, परितः परिवारितः । बभौ त्रिभुवनस्वामी, तदाऽनङ्ग इवाङ्गवान् ॥१९१॥ अथैकतः कृतोत्तालताल-नादानुगामिभिः । मृदङ्ग-पणवा-ऽऽतोद्य-वेणु - वीणादिनिःस्वनैः ॥१९२॥ कीर्णकर्णसुधावर्षं, यति-मान-लयान्वितम् । भावहस्तक-दृक्चारी, चारुर्नृत्तमनोहरम् ॥१९३॥ ग्राम- रागोज्ज्वलस्फीतगीतप्रीतजगज्जनम् । सङ्गीतकं प्रभुस्तत्र, प्रीत्याऽत्यर्थं कृतार्थयन् ॥१९४॥ अन्यतः प्रमदोद्दामप्रमदाजनचच्चरीः । परतः पौरलोकानामापानकमहोत्सवम् ॥१९५॥ अपरत्रापि लोलाक्षीर्दोलान्दोलनखेलिनः ।
पश्यन् प्रमुदितः स्वामी, चिन्तयामासिवानिति ॥१९६॥ पञ्चभिः कुलकम् ॥ किं कदापि मया क्वापि, सुखमीदृक्षमीक्षितम् ? | ददृशे विमृशन्नेवमवधिज्ञानतः प्रभुः ॥१९७॥ आत्मनैवानुभूतं यत्, पुरा वैषयिकं सुखम् । अनुत्तरविमानान्तस्त्रिदिवेषूत्तरोत्तरम् ॥१९८॥ युग्मम् ॥ “विभुर्विभावयामास, स्वभावं भविनां ततः । जानन्तोऽपि हि मोहेन, जीयन्ते हन्त ! जन्तवः ॥ १९९॥ यदनन्तभवाभ्यस्तं, सुखं विषयसम्भवम् । अपूर्वमिव मन्यन्ते, बुभुक्षव इवाशनम् ॥ २००॥ दुःखहेतुषु तत्त्वेन, सुखेच्छा विषयेषु या । साऽपि मोहस्य माहात्म्यं, सुधाबुद्धिर्विषेष्विव ॥२०१॥ अर्थ्यमानोऽपि नोपैति, नोपेतोऽप्यवतिष्ठते । स्थितोऽपि न सुखं दत्ते मत्तेभो विषयव्रजः ॥ २०२॥ १. लमानानु खंता० ॥ २. 'नृत्यम' खंता० ॥। ३. 'नात्तत्रिदि° पाता० ॥
D:\maha-k.pm5\ 2nd proof