________________
६२]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् विंशतौ पूर्वलक्षाणां, पूर्णायां जन्मतो विभुः । अयोध्यायामभूद् भूपः, प्रजापालनपण्डितः ॥१६४।। रूक्षस्निग्धेन कालेन, जातेऽग्नौ तरुषु स्वयम् । स्वामिना चक्रिरे कुम्भकारप्रमुखकारवः ॥१६५।। भरताय कला बाहुबलयेऽश्वादिलक्षणम् । सुन्दर्यै गणितं ब्राह्मयै, लिपीरप्यादिशत् प्रभुः ॥१६६।। विधाय विधिवद् विश्वान् , विश्वनाथो नियोगिनः । अदैन्यानि च सैन्यानि, राज्यं प्राज्यमपालयत् ॥१६७।। निःशङ्का निर्विपत्पङ्का, निरातङ्का निरागसः । निरीतयः प्रजास्तस्मिन् , बभुर्वसुमतीपतौ ॥१६८॥ सस्यान्यकृष्टपच्यानि, धेनवः कामधेनवः । विसृष्टवृष्टयः काले, जलदाः फलदा द्रुमाः ॥१६९।। राजन्वत्यां तदा तेन, भुवनस्वामिनाऽवनौ । जातः शूरोऽपि न क्रूरकराक्रान्तिकृतौ कृती ॥१७०॥ आज्ञामात्रे धरित्रीशान् , कुर्वत्यस्य वशंवदान् । स स्मरो यदि सस्मार, केवलं चापचापलम् ॥१७१।। इत्थं त्रिवर्गसंसर्गसुभगम्भावुकाः प्रजाः । त्रिषष्टिः पूर्वलक्षाणां, जज्ञे पालयतः प्रभोः ॥१७२।। अन्यदा शिशिराक्रान्तं, जगदानन्दयन्नयम् । वसन्तर्तुर्जगद्भर्तुः, सेवां कर्तुमिवाययौ ॥१७३।। मधुर्विधाय वासन्ती, पुष्पाभरणभूषिताम् । चक्षुर्दोषभियाऽकार्षीदलिकज्जलमञ्जुलाम् ॥१७४॥ सहकारं सहुङ्कारं, किल कोकिलकूजितैः । पथिकाः पथि कामस्य, भृत्यं मृत्युममन्यत ॥१७५।। कन्दर्पो दर्पवानाज्ञाभङ्गवध्यान् वियोगिनः ।
पश्यत्यन्तर्वणं कुर्वन्नुच्चैश्चम्पकदीपकान् ॥१७६।। १. क्रूरः कराक्रान्तकृ' खंता० ॥ २. ममंसत खंता० पाता० ।।
20
D:\maha-k.pm5\2nd proof