________________
॥ श्रीवीतरागाय नमः ॥
आगमगच्छीयश्रीमदुदयधर्मगणिविरचितम् श्रीधर्मकल्पद्रुमनाम महाकाव्यम्
प्रथमः पल्लवः ॥
श्रियं दिशतु वो नित्यं, श्रीनाभेयजिनेश्वरः । युगादौ प्रकटीचक्रे, धर्म्मो येन सुखावहः ॥१॥ शान्तिनाथो जिनः शान्त्यै, भवताद्भवपारदः । यस्य कान्त्या जितो मेरूस्तिष्ठत्यद्यापि निश्चलः ||२|| राज्यं प्राज्यमपि त्यक्त्वा, जित्वा यो मदनं भटम् । भेजे चारित्रसाम्राज्यं श्रीनेमिं नौमि तं मुदा ॥३॥ दुष्टरिष्टहरो लोके, मनोवाञ्छितदायकः । श्रीपार्श्वः पातु वो नित्यं, जीरापल्लिविभूषणः ||४|| आत्मनोऽभ्यधिकं दृष्ट्वा, सिंहो यस्य पराक्रमम् । करोत्यङ्कमिषात् सेवां, स वीरोऽस्तु वरप्रदः ॥५॥ श्री अजितादयोऽप्यन्ये, जिना विजितमन्मथाः । मोक्षलक्ष्मीप्रदातारो, भवन्तु भविनां मुदे ||६|| श्रीकामधेनुकल्पद्रुचिन्तामणिसमः सदा । चिन्तितार्थप्रदो ध्येयः, श्रीगौतमगणाधिपः ॥७॥
5
10
15