________________
धर्मकल्पद्रुमः "बीजं जीवदया यस्य, सद्वृत्तं कन्द उच्यते । लज्जा स्तम्भो दृढो ज्ञेयः, सद्बुद्धिस्त्वक्प्रकीर्तिता ॥ दानशीलतपोभावा, मुख्यशाखाचतुष्टयम् । विचाराचारविनयाः, प्रतिशाखाशतं मतम् ॥ जीवाजीवादितत्त्वानि, जिनपूजादिकं पुनः । भावना द्वादशैवं च, पत्राणि विविधान्यपि ॥ विवेकादिगुणौघोऽस्य, नवीनः किसलोच्चयः । सज्जन्मस्वर्गसौख्यानि, यस्य पुष्पाणि भूतले ॥ अक्षयं सुखमाप्नोति, नरो मोक्षस्य यत्सदा । फलं पुण्यतरोरेतत्कथितं श्रीजिनागमे ॥ मित्रपुत्रकलत्राणि, बान्धवाः स्वजना धनम् । धान्यं चेति गृहस्थानां, छाया यस्य सुशीतला ॥ मनःशुद्धिपयःपूराद् , वृद्धिं गच्छति यः सदा । दीनानाथविहङ्गानामाधारः सर्वदापि यः ॥ यत्फलास्वादनं रम्यं, जीवाः कुर्खन्त्यनेकशः । सप्तक्षेत्रमयी शुद्धा, भूमिर्दोषविवर्जिता ॥ भो भव्याः ! श्रूयतां सम्यङ्-मानसे दम्भवज्जिते । धर्मकल्पद्रुमः सोऽयं, सेवनीयः सदादरात्" ॥
___ [धर्मकल्पद्रुमः/पल्लव/१-श्लोक ३८/४६]