________________
५१
अङ्काः
विषयाः
६५ उक्तप्रश्नप्रतिविधानं, तत्र चक्षुषस्तैजसत्वासिद्धिपरिहाराय नैयायिकाभिमतमनुमानमुपन्यस्य प्रतिक्षिप्तम् ।
२०९-१५
६६ चक्षुषस्तैजसत्वसाधकस्य रूपादिषु मध्ये रूपस्यैवाऽभिव्यञ्जकत्वहेतोः सन्निकर्षाजिनादिव्यभिचारवारणाय नैयायिकाभिमतस्य हेतौ विशेषणदानस्य अञ्जनादिकं सहकृत्य मनसैव निध्यादिसाक्षात्कार इत्यस्य चापाकरणम् । ६७ चक्षुषो रश्मीनामुपगमेऽपि ते विषयदेशं गता गोलकेनासम्बद्धाः सम्बद्धा वा प्रत्यक्षजनका इत्यादिविकल्पनजालेन नैयायिकमतस्य खण्डनम् । ६८ चक्षुषोप्राप्यकारित्वाभ्युपगमेऽप्राप्तत्वाविशेषान्निखिलवस्तु प्रकाशकत्वप्रसङ्ग इति शङ्कायाः प्रतिविधानं, तत्र योग्यार्थग्रहणस्वाभाव्यस्य प्रतिनियतार्थप्रकाशकत्व नियामकत्वं समर्थितम् ।
२१०-२
पृ०
"Aho Shrutgyanam"
२०९-१३
२११-२५
६९ विषयनिष्ठव्यवधानाभावकूटरूपयोग्यताया
अञ्जनाद्यजन्यचाक्षुषप्रत्यक्ष प्रतिकारणत्वाभ्युपगमेन कुडघा दिव्यवहितस्याप्रत्यक्षत्वमुपपादितम्, तत्र स्फटिकादेश्राक्षुषज्ञानाप्रतिबन्धकत्वं, भित्र्यादेचाक्षुषप्रत्यक्षं प्रति प्रतिबन्धकत्वं च प्रकल्प्य नैयायिकाक्षेपो दूरीकृतः ।
७० व्यवहितार्थाप्रकाशकत्वेन हेतुना चक्षुषः प्राप्तार्थपरिच्छेदकत्वसाधनं नैयायिक- स्यापाकृतम् ।
७१ व्यवधानस्य चाक्षुषज्ञानप्रतिबन्धकत्वं तदभावकूटस्य चक्षुषज्ञानकारणत्वं, तयोः प्रतिबध्यप्रतिबन्धक भावप्रकारश्च दर्शितः ।
७२ उक्तप्रतिबन्धकत्वमनभ्युपगम्य प्रकारान्तराश्रयणे "तस्य हेतुत्वापेक्षया तद्धेतोरेव हेतुत्वम्" इति न्यायेन तत्तन्नयनोन्मीलनस्य चाक्षुषज्ञानं प्रति साक्षात्कारणत्वकल्पनस्य युक्तत्वं समर्थितम् ।
७३ इन्द्रियसन्निकर्षजन्यं ज्ञानं प्रत्यक्षमिति सामान्यलक्षणानुगमानुरोधेन प्रत्यक्षत्वाबच्छिन्नं प्रतीन्द्रियसन्निकर्षत्वेनेन्द्रियसन्निकर्षस्य कारणत्वं यत्सामान्ययोरिति न्यायेन विशिष्य कार्यकारणभावकल्पनेऽपि चाक्षुषम्प्रति चक्षुस्संयोगत्वेन कारणत्वं, तत्र चिन्तामणिसंवादः, इति न्यायमतस्य खण्डनम्, तत्र सामीप्यसम्बन्धेनैव चक्षुषः कारणत्वं न जैनसिद्धान्तभङ्गः, चक्षुस्स्वविषयं संयुज्य प्रत्यक्षं जनयतीति न्यायमतखण्डन एव तात्पर्यादिति । ७४ संयोगेन चक्षुषः प्रत्यक्षजनकत्वे शाखाचन्द्रमसोः युगपच्चाक्षुषं न भवेद्, अत्र नैयायिकस्य सर्वापि समाधान प्रक्रियोद्भाव्यापाकृता ।
२१३-१
२११-२९
२१२७
२१२ - १२ M
२१२-१८
२१२-२२