________________
विषयाः
पृ० पतिः २९ साङ्ख्यमते ऐक्यपरिणतिमनापन्नाः सत्त्वादयो गुणा असन्द्रतरूपा अर्थान्तरं ।
ते विशेषणाभावाद्विशेष्याभावाद्वाऽवाच्यमिति प्रथमः, ऐक्यपरिणतिमापन्नाः सन्द्रुतरूपा निजं तथापि पूर्ववदवाच्यमिति द्वितीयः, ताभ्यामवाच्याभ्यां
युगपद्विवक्षिताभ्यामवाच्य इति तृतीयः, इति त्रयोदश प्रकारः।। १५८-३ ३० असंहतरूपा रूपादयोऽर्थान्तरं संहृतरूपत्वं निजं, ताभ्यामादिष्टो घटोऽवक्तव्य . इति चतुर्दशप्रकारः ।।
१५८-२३ ३१ घटो रूपादिमानित्यत्र रूपादयोऽर्थान्तरभूताः, मतुबर्थों निजः, ताभ्यामादिष्टो घटोऽवक्तव्य इति पञ्चदशप्रकारः ।
१५९---३ ३२ बाह्योऽर्थान्तरशूतः, उपयोगस्तु निजः, ताभ्यामादिष्टोऽवक्तव्य इति । - षोडशप्रकारः। ३३ पोडशाऽवक्तव्यविकल्पेषु मध्ये एकादशसु विकल्पेषु प्रथमद्वितीयभङ्गानन्तरम
वक्तव्यभङ्गप्रवृत्तिः, द्वादशादिषु पञ्चसु प्रथमत एवावक्तव्यमङ्गप्रवृत्तिः, तत्रोपाध्यायस्य विचार आवेदितः।
१५९-१५ ३४ अत्र पशुपालोक्तस्य प्रथमद्वितीयभङ्गप्रवृत्तिमूलस्वपररूपावच्छेदका निर्धारणाक्षेपस्य प्रतिविधानम् ।
१५९-२३ ३५ तत्र नयविशेषेण स्वपररूपयोः सङ्कोचविकाशयोरुपजीवनेन सप्तभङ्गोप्रवृत्तेरुपपादनं यशोविजयोपाध्यायैर्विस्तरतः कृतम् ।
१५९-२५ ३६ सङ्ग्रहनयविषयस्य महासामान्यरूपसत्वस्य तत्प्रतिपक्षभूताऽसत्त्वस्य च व्यवहा
रनयविषयस्य चाखण्डत्वात्सावच्छिन्नत्वाभावेन स्वद्रव्याधवच्छिन्नसत्त्वप्रतिपादकप्रथमभङ्गस्य परद्रव्याचवच्छिन्नाऽसत्यप्रतिपादकद्वितीयभङ्गस्य च बाधितार्थकत्वात्तदन्यभङ्गान्तराणामपि तथात्वात्सप्तभङ्ग्यनुपपत्तिरित्याशङ्कायाः प्रतिविधानम् ।
. १६०-१३ ३७ सर्वस्य वस्तुनः सदसदात्मकत्वे सत्ताया इव असत्ताया अपि सर्वगतत्वैकत्वा
विशेषात्सत्तकैव, असत्ता तु विशेषणभेदाद्भिद्यत इतिप्राचीनोक्तिः कथं सङ्गतेति प्रश्नस्य प्रतिविधानम् ।
१६१-१८ ३८ अस्तित्वं सत्त्वमेव, न तु वृत्तित्वं, सत्वप्रतिपक्षभूतं नास्तित्वमपि धर्मान्तरमेवे
त्युपपाद्य प्रथमद्वितीयभङ्गजन्यानेकबोधप्रकारः समभिव्याहृतपदमहिम्ना दशितः ।
१६२-१
"Aho Shrutgyanam"