________________
२०
अङ्काः
विषयाः
२६ जन्यद्रव्यत्वावच्छिन्नं प्रति तदनुकूलशक्तिमत्वेन परिणामिपुद्गलस्य कारणत्वादिकं व्यवस्थाप्य वस्तुमात्रस्य द्रव्यपर्यायोभयरूपत्वेनोत्पादव्ययभौव्ययुक्तत्वेन द्रव्यत्वं निष्टङ्कितम् ।
पृ० पङ्किः
२७ द्रव्यत्वबुद्धिरपि समुदितैरेवोत्पादादिभिरित्यत्र “ नाशोद्भवस्थितिभिरेव " इत्युपाध्यायोक्त पद्यसंवादः, उत्पादादित्रिकस्य द्रव्यत्वप्रत्यक्षम्प्रति समुदायत्वेनैव कारणत्वं, एवं द्रव्यपदजन्यशाब्दबोधम्प्रत्यपि समुदायत्वेन रूपेणैकीकृतोत्पादादित्रितयधर्मावच्छिन्ने शक्तिग्रहस्य कारणत्वमिति न नानार्थत्वप्रसङ्ग इि व्यवस्थापितम् ।
२८ पुष्पदन्तपदस्य नित्यद्विवचनान्तत्ववद्द्रव्यपदस्य नित्यबहुवचनान्तत्वप्रसङ्ग- शङ्काया अपाकरणम् ।
२९ शब्दस्वाभाव्याद्द्रव्यपदस्य बहुवचनान्तत्वाभावेऽप्यर्थस्वाभाव्याद्बहुवचनान्तत्वमसङ्गाशङ्कायाः प्रतिक्षेपः ।
३० यत्रैकधर्मस्योद्देश्यतावच्छेदकत्वं तत्र द्विवचनबहुवचनाभ्यामुद्देश्यतावच्छेदकव्यायद्वित्वबहुत्वे बोध्येते, यत्र च नानाधर्मस्योद्देश्यतावच्छेदकत्वं तत्र केवलद्वित्वबहुत्वे एव ताभ्यां बोध्येते इत्यस्य निष्टङ्कनेन द्रव्यपदस्थले नानाधर्मस्योद्देश्यतावच्छेदकत्वेन केवलस्य बहुत्वस्य भानं स्यादित्याशङ्का व्युदस्ता । ३१ द्रव्यपदोत्तरबहुवचनाद्यापच्युद्धारायाश्रिते प्रकाशन्तरे पुष्पदन्तपदे द्विवचनान्तत्वोपपादनं, तत्र " नाशोद्भवस्थितिमति" इति पद्यं न्यायखण्डखाद्ये उपाध्यायोक्तं संवादकम् ।
१३ - १ त्रयोदशगाथावतरणम् ।
२ एकान्तद्रव्यास्तिनयाभ्युपगतं धौव्यम्, एकान्तपर्यायास्तिकनयाभ्युपगतावुत्पादन्ययौ च द्रव्यस्य न लक्षणम्, प्रत्येकं मिथोऽनपेक्षौ प्रत्येकलक्षणग्राहिणौ araft freereष्टी इत्यर्थो दर्शितः ।
१४- १ नयद्वयारन्धतृतीयनयस्य सम्यग्डष्टित्वं भविष्यतीत्याशङ्काप्रतिविधानार्थकतया चतुर्दशगाथावतरणम् ।
२ तदर्थकथनं, तत्रोभयवादात्मकस्य तृतीयनयस्याभाव उपपादितः, प्राधान्येन द्रव्यपर्यायोभयावगाहिज्ञानस्य प्रमाणरूपत्वे स्याद्वादरत्नाकर-तत्त्वार्थ लोकवार्तिकपद्यसंवादच ।
"Aho Shrutgyanam"
९४-१४
९४-२१
९५-९
९५-१३
९५-१७
९६-१
९६-१६
९६-२२
९७-१
1