________________
४
अ:
विषयाः
४६ गोशब्दस्याकृतिवचनत्वं तच शब्दस्य नित्यत्वादेव सम्भवति, तत्संवादकं भाग्योपेतं मीमांसासूत्र मुल्लिखितमेतस्य पूर्वहेतुना निरास आवेदितः । ४७ आकृतिव्यक्त्योर्भाग्यवचनेन स्वरूपमुपदर्थ्याकृतिविशिष्टव्यक्तौ सङ्केतग्रहणं यत्र न सामान्यं तत्र व्यक्तावेव शक्तिस्तत्र " येषामर्थेषु सामान्यं " इति पद्यं संवादि दर्शितम् ।
४८ पूर्व शक्त्या शब्दाज्जात्यवगमः, पश्चादर्थापत्या व्यक्त्यवगम इति मीमांसकमतमाशङ्कय खण्डितं न्यायमतेन ।
४९ न्यायमतस्यायुक्तत्वं सामान्यव्यक्त्योः कथञ्चिद् भेदोपदर्शनेन व्यवस्थापितं, सामान्यविशेषोभयात्मके वस्तुन्येव सङ्केतग्रहः, स्वाभाविकशक्तिसङ्केतग्रहाभ्यामेव शब्दस्यार्थप्रत्यायकत्वम्, तत्र देवसूरित्रसंवाद |
पृ० पङ्किः
५० शब्दज्ञानस्य शब्दज्ञानत्वेनैव शाब्दबोधम्मति कारणत्वम्, सङ्केतस्याकारमुपदर्श्य तज्ज्ञानं प्रत्यक्षभिन्नमेव तञ्जन्यं शक्तिज्ञानमपि प्रत्यक्ष भिन्नमेव कारणमिति व्यवस्थापितम् ।
५१ शक्तिग्रहस्य कारणत्वेऽपि सङ्केतज्ञानस्यापि कारणत्वमित्युपपादितम् । ५२ नियतसङ्केतसहकृतस्य शब्दस्य न सर्वार्थान् प्रत्यविशिष्टत्वं वाच्यवाचकभावस्य च यथोत्पत्तिमा भेजानस्य बलेन शब्दानां प्रामाण्यं तथोपदर्शितम् । ५३ नैयायिकाभ्युपगम दिशाऽनित्यानां शब्दानां मीर्मासिकाभ्युपगमदिशा नित्यानां शब्दानाश्च न प्रामाण्यम्, अस्थिरस्यापि शब्दस्यार्थेन सह वाच्यवाचकभावसम्बन्धस्य ग्रहणमुपपादितम् ।
५४ शब्दानामनित्यत्वव्यवस्थित्या पराभिमतसृष्टिकर्तुरभावेन घातिकर्माद्यऽपरामृष्टपुरुषविशेषप्रणीतत्वेन स्वतः सिद्धं वक्तृगतयथार्थज्ञानात्मकगुणजन्यत्वविवक्षायां तु परतः सिद्धं च प्रामाण्यमिति निगमितम् । ५५ प्रामाण्यस्य परत उत्पत्तौ प्रमाणस्यानुमानस्योपदर्शनम् । ५६ गुणानामनुपलम्भादऽसच्वाशङ्का प्रतिक्षिप्ता । ५७ चक्षुरादिगतनैर्मल्यादीनां गुणत्वं व्यवस्थापितम् | ५८ दोषवद् गुणस्याभ्युपगन्तव्यत्वं निगमितम् ।
५९ युक्तेस्तौल्ये दोषस्यैवाभ्युपगमो न गुणस्येति पक्षपातो न युक्त इत्यत्र “सुव्यक्तं गुणमात्सर्यमिति" पद्यमुपदर्शितम् ।
६० साधकानुमानादिना गुणव्यवस्थापनं विस्तरतः ।
"Aho Shrutgyanam"
१५-१७
१५-२७
१६–९
१६-१३
१६-२०
१७-६
१७-१८
१७-२२
१७-३०
१८-७
१८-१७
१८-२५
१८-२९
१९-१
१९-३