________________
दिक्षुमायावत्तत्तद्विमृश्यं भचक्राद्वा बालादिस्ववयसि वाच्यमिति जातिदिग् द्रव्यलभ्यालभ्यसमयज्ञानाय फलवत् सत्रं बोध्यम् । तदेवाह बालमिति । चूडामणिशास्त्रकथनं शिष्टसम्मत्यर्थम् ॥ १६ ॥ अथ राशिव्यवस्थामाह---
कस्य पार्श्वेऽथवा ग्रामे कस्मिन्मे लभ्य सम्भवः ।
इति प्रश्नेऽगुली भागामेषाद्या द्वादशो दिताः ॥१७॥ कस्येति। कस्य देवस्य नरस्य तिरश्चोवेति । सामान्यतो जात्यादिलभ्यालभ्य निर्णयप्रागुक्तेतत्तन्नामराशिना विशेषलभ्यालभ्यज्ञानाय राशिचक्रामदम् । अत्र जन्मराशे मुख्यता किन्तुनामराशेरेव यतश्चाग्रेऽपि वक्ष्यते जागर्तियेन नाम्नेत्यादिस्वरोदयशास्त्रे तस्यैव प्राधान्यात् यदुक्तं श्रीनरपति अन्थे
प्रसुप्तो भाष्यते येन येनागच्छति शद्धितः ।
तस्य नामादिवर्णे या मात्रा मात्रा स्वरः सच ॥ १॥ अत्राद्धे तस्य नामप्रमाणं हि ग्राह्यं स्वरविशारदैः इत्यपिपाठः ।
बहूनियस्य नामानि नरस्य तु कथञ्च न । तस्य पश्चाद्भवं नाम इत्युक्तमादियामले ॥२॥ यदि नास्ति भवेद्वर्णः संयुक्ताक्षरलक्षणः ।
ग्राह्यस्तदादिमो वर्णः इत्युक्तं ब्रह्मयामले ॥३॥ अथ राशीनां क्रमनियममाह
काश्चन्याः प्रथमे व्यंशे मेषोवृषोद्वितीयके ।
एवमत्रक्रमे हस्तप्रेक्षा तिथिरुपागता ॥ १८ ॥ काञ्चन्या इति । “घड्निशाबलिनोऽजोक्षयुग्मकन्या धनुर्मुगा" इत्यारम्भसिद्धिवाक्यात् । मेषादि त्रयं रात्रिबलं रात्रिप्रत्यासत्या तारायामेव तम्याः स्वल्पप्रकाशेन सायङ्कालरूपत्वात् तत एव सध्न्या मन्दभुजङ्गमाविति शनिराहोस्तव्यवस्था रात्रावेव वह्वेस्तेजोधिकत्वात् तस्यां अग्नितत्त्वाधिष्ठानेन तद्वाहन मेषस्य औचित्यमपि तेन पश्चिमायां कम्बलबाहूल्यं तथा देवानां
"Aho Shrutgyanam"