________________
(६७) मूलइति । मूलतिथिपञ्चके षष्टयादिके प्राप्ते शनेस्ताराधिपत्याज्जीवयुक्तं मूलं वाच्यं " तारविचंदरिखाबुहसुक्काजीवमंगलसणीया" इति-आगमे सर्वोपरिस्थानात् ताराधिपत्यम् । सप्तम्यामष्टभ्यां नवम्याश्च शुक्र गुरु कुजस्वामिकत्वात् पर्श वाच्यं कृष्णपक्ष एवै तत् शुक्ले तु षष्टयां मूलमेवाष्टभ्यायां पुष्यं च राहुकेत्वोः। प्राधान्यादिति । दशम्या दशशतरश्मिस्थानात् फलं ज्ञेय अत एव सूर्यस्य तर्जनी मध्यमपि स्थानं तर्जन्यां दशविज्ञेया इति तथा तर्जन्यर्द्धग्रहे शतमिति विवेकविलासोक्तेः । एवं चन्द्रेऽपि ननु चन्द्रस्थाने तिथि-स्मावसी पूर्णावातयो: प्राप्तौ जीव एव विषमा ल्याः शिरस्त्रिभागात् यद्यत्र जीवयुक्तफलावाप्तिस्तदालभ्येऽलभ्येवा संशय एव किं हस्तदर्शयितुरमावस्यायां पूर्णायां वा प्राप्तायां जीवाल्लभ्यमुतजीवयुक्तफलादिति चेत् सत्यं; कृष्णपक्षे सूर्यप्राधान्याज्जीवयुक्तफलात् शुक्ले हस्तवीक्षणे केवलजीवाञ्चन्द्रप्राधान्याल्लभ्यं तत्राशुभलक्षणेन लभ्यमित्येव निर्भतव्यम् । अमावास्यां सूर्येण संगमात् चन्द्रस्य बाष एव न च पूर्णिमामावश्ययोरेवं सांकर्यमपि सामान्यतो विशेषस्य बलवत्वात् शेषेबुधकेतूवारघातस्थान तिथौ प्राप्तायामत्रापि बुधे मूला संभवात् समाधिः प्राग्वत् ॥ १२ ॥ ___एवं जीवेऽपि संप्राप्ते ग्रहैर्वाच्योऽस्य निर्णयः ।
चन्द्रदेवाश्च तिर्यञ्च कुजदैत्याः शनेःस्थितौ ॥१३॥ एवमिति । अनेन प्रकारेण जीवेजिवतिथि पञ्चके एकादशी द्वितीया त्रयोदशी चतुर्थी पञ्चदशीति लक्षणे प्राप्ते चन्द्रे इति चन्द्रतिथौ पञ्चदश्यां देवाः । तिर्यञ्च इति तिर्यगज़म्भकादेवविशेषा भूतादयो लोकेपितर इति प्रसिद्धा वा कुजेकुजाधिपचतुर्थी तिथिर्वाच्याः। शनेरिति शनिस्थानायामेकादश्यां तिथौ दैत्याः प्रेतादयः ॥ १३ ॥
राहो स्तिथौ तारकास्युः शेषे तु मनुजाः स्मृताः । मनुष्येऽप्यर्थसंप्राप्ते पञ्चमायाः लयोः क्रमात् ॥ १५ ॥ बालं कुमार तरुणं पक्वं वृद्धं विचिन्तयेत् । इत्यादि शेषं सर्व स्यादत्र चूडामणाविव ॥ १६ ॥
"Aho Shrutgyanam"