________________
( ६६ )
जकं यद्वा मध्यांशे मूलमपि तत्तद्द्महधातु योगाद्वाच्यं मूर्ध्नि जीवोरूप्ययुक्तः तथा चन्द्रे फलं जीवयुक्तं राहोस्तिथौ नारका इति नारकभोग्यं मूलमित्यादि ज्योतिः शास्त्रेऽपिस्थानं ग्रहयोगे तत्तन्मिश्रव्याख्यानात् यद्वा माया शहेन मेरुर्नग्राह्यस्तत्र सामस्त्येन महाश्रयत्वेन जातिसांकर्यवत् द्रव्यसाङ्कर्यदोषात्, सामान्यशास्त्राद्विशेषे बलाधिक्यम् ॥ ९ ॥
ग्रहाणां धातूक्तिमाह
मूर्ध्नितारं चन्द्रचाराद् ग्रहाणां सप्तधातवः ।
ताम्रं तारं रीति नागो हेमवर्गों च तक्ष्णिकम् ॥ १० ॥ मूर्ध्नाति । रसाधिकारे शार्ङ्गधरचिकित्सायां वैद्यग्रन्थे तथैव सम्मतत्वात्, ते - जसद्धातुः नागं सीसकं -- वंगं त्रपुर्तीक्ष्णकं लोहम् ॥ १० ॥
रीति
कांसकं वृत्तलोहं च राहोः केतोश्चयत्स्मृतम् । लघोर्द्वितीय त्र्यंशे तन्मध्यायावृचलोहकम् ॥ ११ ॥ काश्यकमिति । वृत्तलोहं धातुसङ्करजन्यं लघोरिति- -यथा सूर्योष्ठस्थोऽपि राशिविचारे प्रत्यासत्या तर्जनी द्वितीय भागे स्वसुहन्मंगलग्रहे पूर्वदिश्येव । अङ्गुष्ठाद्दक्षिणायनरूपाद्व्यावृत्य तत्रैव पूर्वोत्तर दिग् व्यवस्थायां युक्तो हस्वस्य सूर्यदेवतस्य तर्जनी मूल एवं न्यासात् तत एव सिंह सप्तमराशिं तत्रस्थः पूर्णदृष्ट्या पश्यत्यपि सर्वतोभद्रचक्रे पञ्चचत्वारिंशदङ्कम्यासः पञ्चचत्वारिंशमुहूर्तव्यञ्जकस्तेन स्पष्ट : तथा राहुरपि पृष्ठस्थस्तारा द्वितीयभागे राशिचक्रे ज्ञेयो: मध्याया द्वितीये केतुः सप्तमत्वात् ॥ ११ ॥
मूले मूलं शनेः राहोः पक्षं शुक्रे कुजे गुरौ । फलं च चन्द्र भानुभ्यां शेषे पुष्यं विनिर्दिशेत् ॥ १२ ॥
१ चूडामणि शास्त्रेऽपि अधोमात्रौ द्वौस्वरो: युक्तौ तौयदाजीवाक्षरयुक्तौ प्रश्ने दृश्यते तदा जीवधातुं दर्शयतः धातूत्कीर्णो जीवोजीवधातुरिति मिश्रव्याख्यादृश्यते । भुवनदीपके मंदे दूरगे भौमाः स्युः धातुः सवितृभागी वोमूलं जीवश्चसौम्यश्च जीवं प्राहुर्महाथिया: इत्युक्त्वा शुक्रे चन्द्रे भवेद्र्यं बुधेस्वर्णमुद्राहृतं पर्यायस्य गुरोरत्नलययुतं हेमसूर्ये मौक्तिकमु च्यत इति तथा दर्शनात् ।
"Aho Shrutgyanam"