________________
( ६२ )
तु अंगूठे आदर्शरूपमुद्राधरणं तदपि देशान्तरे. स्त्रीणां तर्जन्यामेव दृश्यते नमस्कार स्तोत्रेऽपि रविमङ्गलसिद्ध गुरू बुहासूरिति वचनासिद्धन्यास वन्त्यां तर्जन्यां रविः अन्यदिनेतु सिंहस्थानत्वाद्विष्णुमध्यभाग एव सूर्यः । ननु मेषादिकमाद्राशिचक्रे गौर्यामध्यभागे सिंहराशिस्तत्रैव सूर्यः किं नेष्यते । वारद्वयं सिंहराशिविमर्शे गौरवादिति चेन्न; पूर्वदिग् भाग् एव तस्य युक्तत्वात्, तत एव शुक्रार्कौ प्राग् मुखौ ज्ञेयाविति प्राग् मुखत्वं किञ्च तत्र सप्तम्या व्यवस्थया | रविणायोगे संवर्त्तकोत्पत्तिरपि एवं गौर्याङ्ककं राशौ चन्द्रो • पि द्वितीया प्रसङ्गेन मृत्युयोगापत्तिः ॥ १ ॥
एवं तिथीर्व्यवस्थाप्य प्रागुक्तदिन शुभाशुभफलादिज्ञानाय
करणमाह
तत्
यस्यां निरीक्ष्यते हस्तः सातिथिः स्याद्दिनोदये । घटी चतुष्टयं शेषास्तदनु क्रमतो मताः ॥ २॥ हस्तवीक्षणवेलायां या तिथिः समुदीर्यते । तदगुल्याः स्वरूपेण वाच्यं सर्वं शुभाशुभम् || ३ || तारादि त्र्यंशके ज्ञेया प्रतिपत् षष्टिकातिथिः । एकादशीच क्रमतः शेषं शेषास्त्ववस्थितम् ॥ ४ ॥ एवं तिथी फलंज्ञेयं त्रिपुरांशस्य दर्शनात् । जातिदिग् द्रव्यराश्यादेर्लस्यालभ्यप्रवृद्धये ॥ ५ ॥ यदि भध्यायाः प्रथर्मेश उर्ध्वरेखादि शुभलक्षणम्, तदातेभ्योलभ्यं न चेइलम्यमिति भावः ।
ब्राह्मणाः क्षत्रियाः वैश्या शूद्रास्युः करपल्लवाः । कनिनिकाद्याहंसोऽपि योगवान वर्णवर्जितः ||६ ॥
यस्यामिति । ननु यद्दिने हस्तवीक्षा तत्तिथिस्थानादेवदिन शुभाशुभ- लभ्यालभ्यादि विचारः श्रेयान् अष्टप्रहरान् यावत् तत् एव निर्णयोपलम्भादिति चेन्नः पुरुषद्वयस्य स्त्रियाचैकाया करवीक्षा सम्भवे त्रयाणां फलसाम्यापत्तेः तिथि - परावर्तेतु विशेषज्ञानमित्यत आह-हस्तेति । इतो भाष्यान्तं सर्वे स्पष्टम् । नवरं
" Aho Shrutgyanam"