________________
( ३८ )
पि सिंहराशेः प्रतीतेः सूर्यस्य भवनमपि । तथास्वरोदयशास्त्रे ' चन्द्रो बामे दक्षिणे सूर्य ' इति वचनात् । दक्षिणं नेत्रं भानुरूपं यदुक्तं मुरारि नाटके निष्प्रत्यूहमुपास्महे भगवतः कौमोदकी लक्ष्मणः
कोकप्रीति चकोरपारणपटुये तिष्मतीलोचने । याभ्यामर्द्धविवोधमुग्धमधुर श्रीरर्द्धनिद्रायितो
नाभी पल्वलपुण्डरीकमुकुलः कम्बोः सपत्नीकृतः ॥ १ ॥ नाममालायामपि वामं तु नयनं सौम्यं भानवीयं तु दक्षिणमिति ततः पृष्टवाभिमुख्यो मातुश्च ललाटकृतसम्पुटेतिइति वाग्भटशारीरवचनात् । अङ्गुष्ठे सूर्यस्य प्रत्यासत्तिरपि तेनाङ्गुष्ठमध्यत्र्यंशे सूर्यप्रतिपत्तिर्युक्तैव शिरो १ मुखं २ तथा कण्ठ ३ इति भणिप्यमाणत्वात् मुखे दक्षिणदिग् भाग नेत्ररूपयोगात्, अथान्यग्रहवत् सूर्यप्रकाशोऽपि दर्शनीय इति चेन्न; मध्यभागस्थ सूर्यप्रकाशेन सर्वस्यापि दक्षिणहस्तस्य तले सूर्यप्रकाशदर्शनात् अत एक नतत्रान्य ग्रहप्रकाशो यद्वा दक्षिणायनत्वेन स्वल्पप्रकाशः । यद्वा अ इ उ ए ओ स्वरा अङ्गुष्ठतः क्रमादिति वक्ष्यमाणत्वेन ऊर्द्धरेखा रूपस्य अकारस्य स्वरूपेण आकार प्रत्यासत्या रवेर्देशनम् । इतरथा वाचकरूपेण सूर्याकारेण वा स्पष्टं भाव्यं न च सूर्याकारः कुत इतिवाच्यं सिंहासन दिने शाभ्यां नंदावर्तेन्दु तोरणैः पाणिरेखास्थितैर्मत्य सर्वामिमानसंशय इति विवेक विलासे तदुक्ते:-- अत एवाङ्गुष्ठमूलस्य नृपासनत्वं सिंहासनाकारस्य तत्र दक्षिणहस्ते सम्भवात् ततो ग्रामवासिनि लोकेग्रामश्चलतीत्यादौ आश्रये लक्षणया ग्रामव्यवहारवत् । अङ्गुष्ठो रविरिति सुष्ठुक्तं स्त्रीणामष्ठे सूर्य रुपादर्शभरणस्थानात्, यद्वा अङ्गुष्ठे इति सप्तम्यन्तं अङ्गुष्ठमध्ये इत्यर्थः । नखा इति अङ्गुष्ठनखश्चन्द्रस्तर्जनी नखो मङ्गलस्ततो जयायाञ्च गुरुः । प्रोक्त इति सर्व
१ अरिहंताणमिति न्यासस्थाने शशी । रविमङ्गलसिद्ध इति कथानात्तन्यासे नमो सिद्धाणां तर्जन्या गुरुबुहा सूरीति वाक्यात् "नमो आयरियाणं" इति । न्यासे मध्यायां गुरुः । साहु सणी राहु इतिकनिबष्टायां स्पष्टम् ।
"Aho Shrutgyanam"