________________
( ३७ )
3
सर्वोऽप्यष्ठस्तद्भावेन भावनीयः सूर्यप्रतिबिम्बे सूर्यवत् युक्तं चतत्, अतएव राज्ञस्तथा गुरोरासनादेर्वैनयिकोपचारः, ननु नखादिषु प्रकाशवैशिष्ट्यात् चन्द्रादिप्रतिपत्तिः सुबोधा; अङ्गुष्ठमध्यत्र्यंशे सूर्यश्रद्धा कथं घटत इति चेन्न; पञ्चदश्यास्थानत्वेन चन्द्रवत् सूर्यस्यापि श्रद्धानमावश्यकमेव दाहिणं हत्थंगुठ्य ममेयजवेण दिवस जम्मं से इति प्रकरणकार वचनाद्दिन - श्रद्धाने सूर्यश्रद्धायाः सुलभत्वात्, तेन रेखोपरेखादि सर्वसूक्ष्मव्यक्तिर्दिनत्वादेव करतलेन तथा करपृष्टे तत्र रात्रित्वात्; चंद्रादिग्रहप्रकाशोऽप्यऽस्मादेववेद्यः; किश्च पुरुषस्य स्त्रिया वा प्राङमुखावस्थानेऽङ्गुष्ठः प्रागेव तदृिशोऽधिपः सूर्य एव प्रागुक्तः नक्षत्रचक्रे सामान्यतो भरण्यपि प्रागेवयस्यां रविरुत्पन्नः तथा रेवत्यपि अङ्गुष्ठ एव सूर्यपत्नी वेवहिनमश्वस्तेद्रखाप्यङ्गुष्ठमूल एव त्रिवेण्या अर्वाग् अश्वप्रियभोजनं यवश्रेणिस्साप्यत्रैव, तथा अङ्गुष्ठेन्योममूर्द्धगमिति । व्योमसूर्यस्याश्रय स्तदपि प्रत्यासन्नं तेन मध्यांशस्थितो रविरुर्द्ध दृष्टित्वाद्वयोमदर्शीत्यपि ज्योतिः शास्त्रचचः सुसाधम् । चन्द्रकालानले ऊर्वभागतो नक्षत्रचारः सूर्यकालानले वो भागतस्तेन चन्द्र उपरि सूर्याच्चरति व्यक्तं चैतन्नरपति जयचर्यायाम् । आगमेऽपि " ताररविचंदरिखा ” इति वचनात्तथैव तेन चन्द्रस्य कामोद्दीपकत्वात् महाराजत्वात् फलाहानिवृद्धेश्च हस्तपुष्टे राहुकेतू इति राहोः प्रत्यासत्तेश्च शिवस्याङ्गुष्ठस्य मुर्द्धस्थायिनो नखरूपत्वं तद्भागादधोभागे सूर्यस्थानमपि । तथा मासचक्रेऽपि नक्षत्रचक्रक्रमादङ्गष्टपूर्वमाद्रपदन्यासादङ्गुष्ठो भाद्रपन्मत इति वचनम् । भाद्रपदे सिंहसंक्रमात् सूर्याधिकारः अङ्गुष्ठामृतपानमर्हतां तथाऽक्षीणमहानसलब्धि प्रमुखमपि आदित्याज्जायते वृष्टिरितिस्मृत्युक्तं कार्यमपि सूर्यस्य तत्रैव, एवं अवनीशोदिनमणिरिति वाक्याद्राज्ञां तिलककरणमङ्गुष्टेनैवेति लौकिक कार्यमपि बोध्यं तथागमे पूर्वस्यां ज्योतिर्विमानवाहकतया युक्तस्य ज्योतिषेऽ
४
१ तुला कोटिन्यायेन मध्यग्रहे सर्व ग्रहस्तेन मध्यभागेरवौ सर्वत्राङ्गुष्टे रविस्ततः साधु लोकाश्रयाद्ग्रामोऽपि साधुरित्यादिव उपचारात् अङ्गुष्टो रविरित्युक्तम्--२ दोचंदापभासिंदासुरातर्वसु इत्यागमात् ।। ३ भौमार्कोव्योमदर्शिनी । ४ भुननदीपके ।
" Aho Shrutgyanam"