________________
( २३८ )
प्रशस्तिः
श्रीसामुद्रिकभावमद्भुतरसं गम्भीरमाध्यासितं नानाकारमहार्थभासुरमणि ज्योतिर्मिरुद्भासितम् । साकल्येन परिग्रहीतुमचिराद्भक्ता न शक्ताजना स्तद्धस्ताहितजीवनेन मुहितास्तै सन्तु श्रद्धाश्रयाः ॥ १॥ किञ्चिच्छास्त्रसमीक्षणाद्रुमुखादन्वीक्षणाल्लक्षणाभ्यासादत्रसमुच्चितं समुचितं ज्ञेयं मयावाङ्मयं । तदुष्यं विदुषा न किन्तु सुहृदासम्भावनीयंकरे यस्मानिर्मलतामुपैति सकलं शास्त्रं सतांसंग्रहात् ।। २॥ गृहे वृष्टिस्तस्य स्फुरति कनकर्मेधविजया द्विदित्वा यः पाणिग्रहणविधिमीक्षेत निपुणः । समुद्रादुन्द्वता सदवयव सम्बन्धमधुरा महालक्ष्मीः पाणिग्रहणमुदिता तेन रमते ॥३॥
प्रेष्यस्तपागच्छ नृपालि चक्रिण- श्चक्रे गुगेः श्रीविजयप्रभोः शिष्यः कृपादेर्विजयस्य धीमतः
शास्त्रं सपेधाद्विजयाख्य वाचकः ॥ ४ ॥ अनुष्टुमां सपादात्र ज्ञेया पञ्चसती ध्रुवम् ।
ग्रन्थेसतां प्रसादाच्चश्रेयः श्रीरस्तुशाश्वती ॥ ५ ॥
"Aho Shrutgyanam"