________________
(२३७) यस्येति । यस्य पुरुषस्य वामेहस्ततले कृपाणिका अन्यद्वा शस्त्रं भवेत् तस्य पुंसः स्त्रीक्रोधाद्भर्तारं हन्यात् ॥ ४० ॥
ध्वजे चजलता तस्याः तुलायां व्यवसायिता ।
चन्द्रे सौम्या पुष्पदाम्ना बहुपुत्रवती वधुः ॥४१॥ ध्वज इति । वामहस्ते पुरुषस्य ध्वजे सति स्त्रियाश्चापल्यं कुशीलत्वं तुलाया आकारे व्यापारचातुर्यस्यात् चन्द्रे वामहस्ते सौम्यास्त्री क्षमावती स्यात् पुष्पमालाया पुत्रवती वधूः ॥ ४१ ।।
अथाधिकार तात्पर्यम्माह-- एवं यद्वहुसम्मतं तदुदितं वामेपि रेखा फलं सर्व चाप्य नयादिशैव सुधिया ध्येयं विधेयंधिया। उन्नत्यं समुदेति मेघविजयाद्यस्मादकस्माच्छ्रियं
नित्याभ्यासविलासलभ्य सकृततल्लक्षणान्विक्षणात ॥४२॥ एवमिति । अनेन प्रकारेण बहूनां शास्त्रकारणां सम्मतं तैरपि निश्चितं तद्वामेऽपि रेखाफलं उदितं-कथितं अनयादिशारीत्या सर्वमपि विधेयं कार्य ध्येयम् । यस्माद्धयानाञ्चिन्तनात् श्रियां लक्ष्मीणां औन्नत्यं समुदेति जायते । कीदृशं मेघस्य धाराधरस्य विजयो यत्र तत्ततोऽधिकमित्यर्थः ॥ असकृद्वारे वारं तस्य वामावामहस्ता रेखाजालस्य लक्षणानां अन्वीक्षणाद्विमर्शात् पुनः कीदृशं नित्यं लक्षणशास्त्रस्ययोभ्यासः पुनःपुनर्विचारस्तेन लभ्यं प्राप्यमित्यर्थः ॥ ४२ ॥ इति श्रीहस्तसञ्जीवनव्याख्यायां सामुद्रिकलां श्रीमहामहोपाध्याय श्रीमेघविजयगणिकृतायां विशेषरेखाधिकारश्चतुर्थः समाप्तः ॥
समाप्तश्चायं ग्रन्थः
"Aho Shrutgyanam"