________________
(२३४) खियालयंशनरस्यापि कलंमुख्यन्तु वामतः ।
एवं रात्रौ दिने जातः स्त्रीत्रोः केचित्फलं विदुः ॥ २९ ।। स्त्रिया इति । व्याख्यातप्रायम् ॥ २९ ॥ अथ लधुबालस्य हस्तप्रेक्षणावसरमाहद्वादशाब्दानि रेखाणां न तादृक् स्पष्टता भवेत् ।
तत्परं त्रिणिवर्षाणि वामहस्ते क्षणं शिशोः ॥ ३० ॥ द्वादशेति । रेखाणामस्पष्टतया नवीनानामनुत्पत्त्या वा द्वादशवर्षाणि यावन्न हस्तप्रेक्षणं तस्य बालस्य शुभाशुभ रिज्ञानाय मातापित्रोः सामान्यतः सन्तानरेखाविशेषस्तजन्मवर्षस्थानरेखा एव लक्षणीया वर्षज्ञानाय मातापित्रोवर्तमानवर्षस्थानतो गणने पञ्चमस्थानरेखा लक्षणीया, एवं मासदिनज्ञानमप्युनेयं वातस्य रोगोपशान्त्यर्थं मातुस्तत्तदोषधपानवत् शीतलादि रोगे पितुरपि केशरक्षणमलिनवस्त्रादि व्यवस्था बालरोगोपशमायेष्दैव नचैतज्जैनानाम मनास्थेयम् । तओपिति अंगा तओ माउ अंगा पणता इत्यादिना भगवत्यां सूत्रे सामानाधिकरण्य प्रतिपादनात् । द्वादशेत्ति नियमोऽग्रेऽपि वर्षद्वादशकेनैव भावचक्रादौ लक्षणोपयोगात् तत् परं तदने स्वयंशतिशयात्रीणि वर्षाणि यावत् शिशोबालस्य वामहस्तप्राधान्यं तथा च पञ्चदशवर्षाणि भवन्ति, तन्नियमोऽपि हस्तं प्रति पञ्चदशवर्षोपयोगात् तावतामेव पर्वणां सद्भावादिति ॥ ३० ॥
__ वामहस्ते मातृरेखा दैये स्त्रीपक्षतो धनम् । - तथा मातुधनं पक्षे तारुण्यमेवाविनिर्दिशेत् ॥ ३१ ।। वामहस्त इति । मातृलेखाया धनलेखायाः प्रलम्बत्वे स्त्रीपक्षात् श्वशुरकुलात् यद्वाकस्याश्चित् स्त्रियाः सान्निध्यात् धनं स्यात् । स्त्रिरेखायां दोष दरिद्रयोगे वा भिक्षायोगे वा मातुः पक्षे मातुलवर्गे धनं वाच्यं, यद्वा तारुण्ये स्वोपार्जितं धनम् ॥ ३१ ॥
अपल्लवा नवि छिना वामायूरोखका यदा । तदास्त्रियासमं प्रीतिः प्राधान्यं स्वगृहे मवेत् ।। ३२॥
"Aho Shrutgyanam"