________________
( २३३ )
1
यथैवेति । येन प्रकारेण, आयुलैखादिपूर्वकत्वेन दक्षिणो वीक्ष्यते, तेन प्रकारेण वामहस्तेऽपि लक्षणं विशेषेण ईक्ष्यते--परीक्ष्यते पण्डितैरिति । ननु वामायुर्लेखायां किं लक्षणीयम् । नरस्य स्वायुः स्त्रिया आयुर्वानाद्यो दक्षिणायुर्लेखया तल्लक्षणात्, नान्त्यः स्त्रिया वामहस्ते तल्लक्षणात् ततः सर्वं विकल्पजालं वृथा, लोकानां गतानुगतिक न्यायेन लक्षणशास्त्रंप्रामाण्यं चेदक्षिण रेखाभिरेवाशापूरणीया किं पुरुषवामहस्तरेखाभिरिति चेन्न; लक्षणशास्त्रस्य गाम्भीर्येण तुच्छबुद्धेरनवकाशात्, स्त्रीसुखं श्वसुरकुलसुखं कृष्णे शुक्छे वा पक्षेसुखं परसेवा गृहक्षेत्रादिभ्यो लभ्यं शास्त्रज्ञानं कलाविज्ञानं वा धनं स्वोपार्जितं पैतृकं वाचतुष्पदलभ्यमित्यादिभावानां दक्षिणेलेखा भिरलक्षाणात्, किञ्च लम्मान्निशाकराद्वा यन्नवमं तद्गृहं भवेद्भाग्यमिति ज्योतिः शास्त्र सारावलीवचनाद्राशि कुण्डलिका लेखनं लग्नकुण्डलिका पत्रे कथमावश्यकं सर्वभावानां ठग्नेकुण्डालेकैव निर्वाहात्, अथ तत्र स्फुटतरविशेषबोध इति वेदत्रापि तथैवेत्ये तावतैव सन्तोष्टव्यम् । अपि च यस्य पञ्चषड्वा स्त्रियस्तासां स्वं स्वमायुः स्वीयवामायुर्लेखया बोध्यम् । पुरुषस्य यावज्जीवं स्त्रीभोगः कियत्कालं वा इति तथा कतिस्त्रियोऽस्य भवन्तीति च कथं लक्षणीयमिति सविस्तरं निरुपितं प्राक् । प्रायोग्रहणान्नसर्वं दक्षिणवद्वोक्ष्यं लक्षणभेदात्, तदेवाह -- कृष्णपक्ष इति कोऽर्थः । धनरेखया दक्षिणे दीर्घया पैतृकं, आयुषः पूर्वाद्धे धनं बहुलमिति वाच्यम् ॥ २७ ॥
"
शुक्लपक्षे वामहस्तलक्षणं मुख्यमीरितम् । अनिर्णये हस्तविक्षापक्षात्पाण्योः प्रधानता ॥ २८ ॥
शुक्लपक्ष इति । शुक्लपक्षजातस्य वामे धनरेखया लम्बया स्वोपार्जित स्वसुरधनं वा पश्चार्द्धे वृद्धत्वे वाघनं बहुलं, वामावामयोर्द्वयोस्तुल्यतायां तुल्यं यथायोग्यत्वात् ह्रस्वत्वे धननाश इति ध्येयम् । अथ जन्मपक्षानिर्णये यत्र पक्षे हस्तो वीक्ष्यते तस्यैव प्राधान्यं । सामुद्रिकेऽपि ज्योतिः शास्त्रानुसारेण फलव्यञ्जनात् हस्तादि नक्षत्रोपयोगवत्, एतेन तिथिवारनक्षत्रचकादि दर्शनमपि समर्थितम् ॥ २८ ॥
"Aho Shrutgyanam"