________________
( १७२ )
"
लेखायां नपुंसकत्वं वृद्धत्वेन भोगासामर्थ्यान्नपुंसकत्वेनायुर्वन्धकान। बाहुत्र्याच्च । पितृलेखायामूर्द्ध लोकान्नभश्वरत्वं वायुस्वरूपाश्च मातृलेखायां मर्त्यलोकात् स्थलचारित्वं, आयुर्देखायां पातालात्तत्र जलबाहुल्यान्नागलोकस्य जलाधिकारादम्बुचारित्वं, तिथिचक्रेण तिर्यग् मनुष्यभावनिर्णये रेखा प्राकश्येन नभः स्थलाम्बुचारित्वं निर्णेयं गोत्रेपितुरेखाविकारात् पितृलेखायां पुंस्त्वेन 'सत्वं मातृरेखायां स्त्रीत्वेन रजः आयुर्वेखायां नपुंसकचेन तमः प्रती यत एव एवं सर्वत्रयात्मकं वस्तुरेखात्रयेण बोध्यं ग्रन्थविस्तरभयान्नात्र लिख्यते दिगमात्र दर्शनात् ॥ ४८ ॥
ऊध्र्वलोकादिव्यवस्थायाः फलमाह -
-
यस्या प्राधान्यमेतासु तस्यारूपं निरूप्यते ।
जीवस्यागमनं वामे गमनं दक्षिणे करे ॥ ४९ ॥
यस्या इति । यस्या रेखायां प्राधान्यं छेदभेद वेघादि वर्जित्वेन प्राक- टयेन विशेषः एतासु तिसृषु रेखासु दृश्यते । तस्या रेखायाः स्वरूपं निवेदयेत् । जीवस्यागमनं कस्माद्भवादत्रागतिरिति जिज्ञासायां वामेति पितृलेखाविमृश्या स्त्रंशतेन उद्भवस्य तत एव योगात्, कस्यां गतौ, अर्थ जीवो यास्य तीति ज्ञाने दक्षिणकरे पितृलेखाविमृश्या गोत्रस्य जननान्यर्थात् ॥ ४९ ॥ अत्राति गाम्भीर्यात्सूत्रस्यभाष्यम् ।
एवं चराचरं ज्ञेयं रेखाभिः सम्प्रकाश्यते । सतं भवद्भविष्यद्वा दीपिकाभिर्गृहंयथा ॥ ५० ॥
उपसंहारमाह एवमिति चरं द्वीन्द्रियादिसजविरूपं वार्दलादि चलस्वरूपमजीववृन्दं, अचरमेकेन्द्रियं पृथिव्यादिस्थावर जीवरूपं घटाद्यजीव वस्तु सर्वं ज्ञेयं ज्ञान विषयः रेखामिरेव प्रकाश्यं यत् पिण्डे तद्ब्रह्माण्डे इति -लोकात् स्वरसमयेऽपि वैशाखस्थानस्थित कटिन्यस्त करयुग नराकृति
क इति कथनान्नरदेहे सर्व लोकावेय वस्तुस्थितेर्नरदेहस्यापि सर्व स्वरूपं युग लभ्यमिति सर्व लोकस्वरूपं नयविशेषाल्लेखाभिर्ज्ञायत एव कटिस्थकर हस्ते कथनात्तत एव ज्योतिश्चक्रद्वय प्रतीतिः प्रायुक्ता युक्ता । पाद नरवानां
"Aho Shrutgyanam"