________________
(१६८) यस्य मणिबन्धे तिलोरेखाः स्युः । अत्र तु रेखामानत्रयमुक्तं द्वितीत प्रकरणे।
परिखितापयडा जवमाला जस्स होइ मणिबन्धे सोहोइ घणाइणो रायापुण खति ओ होई ॥१॥ दुपरिखिता रम्मा मणिबन्धे जस्स होइ जवमाळा सो होइ रायमंती विवुलमई ईसरोवावि ॥ २ ॥ एगारम्भा खिता जवमाला होइ जस्स मणिबन्धे
सिठी घणे सरोवा होइ जणपूइ ओ पुरिसो ।। ३ ॥ इति यवमालात्रयमप्युक्तम् । अत्र पुरुष शङ्को मनुष्यजात्यपेक्षस्तेन स्त्रिया अपि वामहस्तमाणिबन्धे यवमालाभिः फलं वाच्यम् ॥ ४१ ॥ __ एवं पाणी तलपृष्ठमूलाङ्गुलीफलं निगद्य रेखाफलं स्पष्टयति ।
रत्नाकराद्गोत्ररेखा करभाद्धनतेजसोः ।
एता रेखायान्ति तिस्रस्तर्जन्यशष्ठकान्तरम् ॥ ४२ ॥ रत्नाकरादिति । पितरस्तृप्ताः सन्तति वर्द्धयन्तीति लोकोक्त्या पितृणामावासादक्षिणस्यामेव पितृपतेर्यमस्य तत्राधिकारात् तेन रत्नाकरान्मणिबन्धाद्गोत्ररेखा या उद्भवः स्वसमयेऽपि लोक स्वभावादक्षिणस्यां जीवा बहवः कृष्णपाक्षिकाधिक्यात् भरतक्षेत्रमपि मेरौदक्षिणस्यां दक्षिणहस्तेऽप्यङ्गुष्ठे सूर्यस्थानादृक्षिणायनं तत्र प्रेतकायिका लोकेपितर इतिप्रसिद्धा यमाधिकाराद्बहवः समापतन्ति । ते च प्रसन्ना न गोत्रछदाय प्रयतन्ते तेन गोत्ररेखा दक्षिणस्या एव, तस्याः प्रागुक्तं गङ्गास्वरूपं दक्षिण भागक्षेत्रादेव वामहस्ते यद्यपि पितृरेखा उत्तरस्याः प्राची प्राप्ता । तथापि उदग भागे क्षेत्रे रक्तासद्भावो वामे स्त्रिया रक्ताधिक्यान्गोक्तिस्तु लोकबोधाय, तथा धनाधिष्ठायिका लक्ष्मीर्देवी तस्यास्तु रत्नमुक्ताफलाद्युत्पत्त्या उदधिः प्रसादस्थानं जलक्रीडा पात्रत्वादत एवं श्री पर्यषणा कल्पसूत्रे " कमलपज्जलंतकरगदिय मुक्कतोयं दिसागर इंदोरुपीवरकराभिच्च माणिति विशेषणद्वयं सूपपन्नं उदधिकुमाराणां सूराणां प्रभुवरुणः
"Aho Shrutgyanam"