________________
(१६७)
वेदत्रयीषु नेति प्राचां वचनात् तथा त्रयीव नीतागुणन विस्तरं पुनर्यस्त्रिवेदी विदांवन्ध इति नैषधेऽपि तदुक्तिः ॥ ३७॥
पञ्चभिर्दशवर्षाणीत्येवं निर्णयमायुषि ।
ललाटे शतवर्षाणि रेखातःपञ्चतो वदेत ॥ ३८॥ पञ्चाभिरिति । यथा पञ्चयवाधिकत्वं यथा पञ्च यव हीनत्वमपि कालान्तरे सम्भाव्यं शास्त्रप्रामाण्यात् , एवमायुषोऽनुसारात् प्रायुक्तः वयः सुखादिवाच्यम् । अथ पञ्चयवैरेवाधिकन्यूनत्व नियमः कथं षड्भिरपि चेत्स्यात्तदा को दोषः इत्या शझ्याह-ललाट इति भालपट्टेऽखण्डाः पञ्चरेखास्युस्तदा शतवर्षायुर्वाच्यम् । अथ तत्रापि षड् रेखाफलं किमिति नोक्तं विंशोत्तरदशावर्तनादिति चेत् सत्य बाहुल्यापेक्षया सूत्रमिदं, अत एव पाणिनीय व्याकरण महाभाष्ये शतवर्षा जीवितोक्तिः । विंशोत्तरदशानिबन्धोऽपि प्रायिक एवा, अन्यथा श्रीवचस्वामिपट्ट धरश्रीवज्रसेनसूरेरष्टाविंशत्युत्तरशतवर्ष जीवित्वं पटावल्यादिशास्त्रे भाणितं न घटते । इदानीन्तन जनानां शतवर्ष जीवित्वेऽधिकत्वं, तत एव दशावस्थानिबन्धः शास्त्रीय इति ॥ ३८ ॥ अथ पाणिमूलस्थमणिबन्धफलमाह
मणिबन्धे यवश्रेण्यस्तिस्रश्चेत्तन्नृपोभवेत् । - यदिताः पागिपृष्ठेऽपि ततोऽधिकतरं फलम् । मणिबन्ध इति ॥ ३९ ॥
द्वात्र्यां च यत्रमालाभ्यां राजमन्त्रीधनीबुधः ।
एकया यवपङ्कत्यातु श्रेष्टिबहुधनोर्चितः ॥ ४० ॥ द्वाभ्यामिति ॥ ४० ॥ द्वयमपि प्रकटार्थम् । प्रकरण सम्मतिमाहधणंकणयरयणजुत्त मणिबंधे जस्स तिभिरेहाउ।
आहरणविहमोगी पछाभ चसोलहइ ॥४१॥ धणेति । धनं गोधनादिकनकं स्वर्णं सर्व धातूपलक्षणमे तत् रत्नानि वैर्यादीनी तैर्युक्तः विविधाभरणभोक्ता पश्चादपि सन्तत्या भंद्रमङ्गलं सलभते,
"Aho Shrutgyanam"