________________
(१५२) __ एवं पक्षि चतुष्पदद्विपदबहुपदानां भेदः स्वर्गमृत्युपातालभेदः । इति जीवभेदाः।
अथ धातुभेदाःघातुचिन्तायदादृष्टा द्वाभ्यां भाग समाहरेत् ।।
एक शेषे धाम्यधातु रधान्यः शून्यशेषतः ॥ २० ॥ इत्यादि विशेषोग्रन्थान्तरात् श्रीपार्श्वचन्द्रसूरिकृत हस्तकाण्डादेः किञ्चित् फलं प्रागप्युक्तम् । स्पर्श प्रयोजनमत्र तत्तदगुलि पञ्चकस्पर्शे तत्तदुत्तरादि प्रश्नानां प्राबल्येन पृच्छा शुभाशुभनिर्णयः सामान्याद्विशेषस्तु अगुल्यंशस्पर्शे उत्तराधरदग्धालिङ्गिताभिधूमित संज्ञापञ्चकनिवेशात् पञ्चदशभागेषु पृच्छादि फल ज्ञानाय मन्तव्यः ॥ ४६॥ अथ- तिथिधिष्ण्यं च वारश्च लग्नग्रहबलस्तथा ।
पञ्चानामपि सर्वेषां शकुनोदण्डनायकः ॥ इति तथा शकुनं च बृहस्पतिरित्यादि शास्त्र वाक्यात् मुख्यस्य शकूनस्योप. देशेनाधिकारं सं वृण्वन्नाह
लक्ष्मीस्यात् पोतकी राजाभषणोऽनामिका शिवा ।
कनिष्ठापिङ्गलाकाकः प्रदेशिन्यां व्यवस्थितः॥४७॥ लक्ष्मीरिति । पोतकीति शाकुनिकभाषा प्रसिद्धा श्यामादूर्गादेवी चेष्टासुचापल्याधिक्येन तत्तच्चेष्टाभिः शकूनविशेष ज्ञानेन लक्ष्मीप्राप्तेर्लक्ष्म्याङ्गुल्यांतस्या व्यवस्था राजागुष्ठस्तस्यवटस्वरूपेण यथाधिष्टानात् कुर्करः । शिवा शृगाली नाम्ना ताद्रुप्यात्सावित्री कनिष्ठापिङ्गला काञ्चनरूपत्वापिङ्गला भैरवी। काकःतर्जनी दुर्गन्धरूपत्वात् , अत्र कनिष्ठा दुर्गामध्यभैरवीति हस्तबिम्बदुर्गबोधादौ दृश्यते । तथापि भूषणकारमते ज्येष्ठा दुर्गाकनिष्ठा स्यात् पिङ्गलारात्रिसङ्गमात्, इति वचनात्तथाव्यवस्था ।। ४७ ॥
१ अस्या गौरवात् पोतक्या: शकुनेषु मुख्यत्वं श्यामादिकानामिति शकुनशाने कथनात्।
"Aho Shrutgyanam"