________________
( १५१ )
वेदादिक्रमतो लेख्या अवर्गादिक्रमात्सुधिः । बेला प्रश्ने सदा ज्ञेया अभिधूमितसंज्ञके ॥ ९॥ वर्णराशितावर्णाः सर्वमात्रा समन्विताः । वर्णसंज्ञा पुनर्योज्या पिण्डसंज्ञ स उच्यते ॥१०॥ इत्यभिधातिचक्रम् ॥
दुग्धः प्रश्नो यदादृष्टी हीनाङ्का गृह्यते तदा । वस्वादिचन्द्रतो यावत् एकहासात्ततो भवेत् ॥११॥ प्रभोहीनाक्षरै ग्राह्यः प्रश्नामात्राहतस्वथा
श्रेणीसंज्ञा पुनयोज्या पिण्डसंज्ञा स उच्यते ॥१२॥ एवं पिण्डं कृत्वा -
उत्तरेदेयमेकं तु हेयमेकं तथाधरे । दग्धेपिण्डान्तथातस्मात्रित्रयं पातयेत् पुनः ॥ १३॥ पिण्डाङ्कं तु द्विषास्थाप्यं त्रिभिर्भागं समाहरेत् । शेषेजीवस्तथा धातुमूलं चैव क्रमाद्वदेत् ॥ १४ ॥ लब्धं मूले विनिक्षिप्य चतुर्भिभागमाहरेत् । द्विपञ्चतुपदीऽपादस्तथावैपादसङ्कलः ॥१५॥ क्रमाजवास्तु विज्ञेया लब्धं मूले विनिक्षिपेत् । कराभ्यामाहरेद्भागं शेषे मनुजपक्षिणः ॥ १६॥ मनुजे पञ्चभिर्भागो ज्ञेयोवर्णक्रमेण तु । ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चैवान्त्यजस्तथा ॥ १७ ॥ लब्धं मूले विनिक्षिप्य वन्हिभिर्भागमाहरेत् ।
नरोनारी तथा षण्ढः क्रमाञ् ज्ञेयो विचक्षणैः ॥ १८ ॥ गौरश्यामस्तथा मध्यो दीर्घश्वमध्यहस्वकः । शिशुर्युवा तथा वृद्धस्त्रिभिर्भक्तैः प्रजापते ॥ १९ ॥ इति मनुष्यभेदाः
" Aho Shrutgyanam"