________________
( १४१ )
गर्मपृच्छामाह-
गर्भप्रश्ने करस्पर्शे समाङ्गुल्या तु बालिका |
पुत्रः स्याद्विषमा मुल्यां तलस्पर्शे नपुंसकम् ॥ २७ ॥
गर्भेति । अङ्गुष्ठादीनां पुंस्त्रीक्रमात् तेनस्तोत्रे पुंसिछिन पुंसियर पुरित बहुसद्द वंदणिज्जाणमिति । समत्वं विषमत्वं पञ्चकापेक्षयानाङ्गुलि चतुष्टयापेक्षया तलस्पर्शस्तु सर्वतोभद्र चक्रे फलन्यासादिना ज्ञेयः । तलस्पर्शकथनात् अङगुल्यन्तस्पर्शेऽपि नपुंसकं गर्भच्युतिर्वा ॥ २७ ॥
अथ स्वप्नादिनिमितान्तरमपिनिर्णेनक्ति ।
भोजनं किदृशं भोज्यं स्वप्नोवा किशो मम । इति ज्ञेये स्पृशेन्मायां साङ्गुष्ठं सुविचार्यते ॥ २८ ॥ भोजनमिति । स्पष्टम् । प्रासङ्गिकभोजन पृच्छानिर्णयोपलक्षणादन्यापि मनोधारणा अनया दिशा लक्षणीया ॥ २८ ॥
तदेवाह
धातुमूलादिकं वस्तु तथा कामदुघास्थिति । लग्नाद्गुहांश्चाविज्ञायवाच्यं सर्वं शुभाशुभम् ॥ २९ ॥
घात्विति । अत्रस्पर्शनं नैमित्तिकस्य प्रष्टुर्वा तदभिमन्त्रणपूर्वकमेव तद्विविश्व वक्ष्यत एव ॥ २९ ॥
अथ स्वरानिमित्ते बालादिस्वरानाह
बालकुमारोऽथयुवा वृद्धो मृत्युः स्वराः क्रमात् ।
तारादि कामदोषु गणेशे च व्यवस्थिता ॥ ३० ॥ बाल इति । अकारादिस्वराः पञ्च तेषामष्टौभिदस्त्विमा । मात्रा वर्णो ग्रहो जीवा राशिभ पिण्डयोगजौ ॥ १ ॥
प्रोक्ता नैसर्गिकाद्यष्टौ मात्राद्या नामजाः स्वराः । एतेषामुदमान् वक्ष्ये द्वादशाष्टाकालजान् ॥ २ ॥
इति नरपति ग्रन्थे मात्रा १ वर्ण २ ग्रह ३ जीव ४ राशि ५ नक्षत्र ६ पिण्ड ७ योगज ८ रूपानामस्वरा अष्टपरे कालजाः द्वादशाष्टिक
―
"Aho Shrutgyanam"