________________
( १३१ )
दिनमानमपि ज्ञेयं त्र्यंशस्पर्शेन दुर्दिने ।
या तिथिः सा घटीवाच्या ज्योतिषेऽपि च सम्मतः ॥ ६ ॥ दिनमानमिति । अत्र स्पर्शेऽङ्गुलिमुखनेव योग्यं नतु तदन्ये त्र्यंशा इति यन्त्र स्थापनेन तेषां त्र्यंशानां स्पर्शसम्भवः दुर्दिने मेघान्धकारे सति यत् तत् स्पर्शनाद्दिनमानं ज्ञेयं, या तिथिरिति प्रागुक्ततिथिस्थानरीत्या तावस्योघटिकाः गताः शेषा वा यथावसरं ज्ञेया इत्यर्थः । अत्र दक्षिणे दक्षिणायनमित्युक्तेरितिन्यूनं दिनमानं सूत्रे बाहुल्यापेक्षया संदृब्धं यतो हि दिनमानं न्यूनं षड्विंशनाऽयोर्कपलामृगेस्युरिति वचनात् षड्विंशति घटिकारूपं तदर्द्ध त्रयोदशघटिकारूपे मध्यान्हस्त्रयोदशी तिथिस्थानात् भूतायां मध्याङ्गुल्यां प्रतीयते तेन उत्कृष्टदिनमान समये मध्यान्हात् न्यूनवेलायां कनिष्ठाग्रभागस्पर्श, एकादशवट्यो गता इति नवक्तव्यं जघन्यादिनमानस्योत्कृष्ट दिनमानस्य चान्तरं षड् घटिकाः षत्रिंशचपलानि तद्द्वैतिस्रो घट्योऽष्टादशपलानि ताघट्यस्तावन्ति चपलानि, एकादशमध्ये प्रक्षिप्य चतुर्दशघट्यो गता इति वक्तव्यं, एवं सर्वत्र दिनमाने न्यूनाधिकत्वं विचार्यदिनमानं वाच्यमिति भावः ॥ ६॥
भार्थी सम्मतिमाह
एकैका दशकैकविंशति घटी संख्या कनिष्ठाङ्गुली पूर्वैरङ्गुलिभिर्जनैर्निगदितैर्द्वादिः परैर्ज्ञायते । एकैकेन करस्यपंडितवरैर्बुध्या गिरावागुरो
रेवं खेन्दुरखी विनानि सततं रात्रिंदिवं प्रोच्यते ॥ ७ ॥ एकैकादशेति । एकः १ एकादशकं २ एकविंशति ३ श्व, आसां घटीनां संख्या कनिष्ठाङ्गुलिपर्वैः कृत्वा पण्डितवरैज्ञीयते परैगौयादिभिः, अङ्गुलिभिः द्वयादिरपिबोध्यते । द्वौ २ द्वादश १२ द्वाविंशति२२रपि साविच्याः पर्वैः त्रय ३ त्रयोदश १३ त्रयोविंशति २३ रपि मध्यायाः परैः ज्ञेया एवं मध्या तर्जन्यङ्गुलेष्वपि क्रमतो वाच्यम् । अङ्गुलिशद्रः पुंस्त्रीलिङ्ग: पर्वशोऽकारान्तोप्यस्तीति योगशास्त्र वृत्तौ - किं विशिष्टेः पर्ने जनैर्निगदितैः
" Aho Shrutgyanam"