________________
(१३०) बहुवचनं वामावामयोः करयोर्द्वयोरपि शकुनादौ सोपयोगत्वसूचकं अन्यथागुलिद्वयमेव समसंख्याकमिति ॥ ३ ॥ तदेवाहलाभालाभौ सुखं दुःखं जीवितं मरणं तथा । गमागमौ जयंभङ्ग कार्याकार्य शुभाशुभे ॥४॥ चतुः प्रियादिक्रमतः स्पर्शात्पश्चागुलेरिदम् । वाच्यं विचक्षणैर्यद्वा तत् कालप्रश्रलग्नतः ॥५॥ लाभेति । चतुरिति विषमाङ्गुलिस्पर्श लाभः समाङ्गुलिस्पर्श लाभो नास्तीति । एवं सर्वत्र भाव्यम् । अङ्गष्ठादावयं क्रमः यद्यपिकनिष्ठादिक्रमेऽपि समानमेव विषमसंख्याकत्वं तथाप्यङ्गुष्ठः शीघ्र लाभादिः कनिष्ठायां विलम्बादिति ज्ञापनार्थम् , तथा सूत्र निबन्धः । इदं च इष्टोपदेशात् प्राप्तं युक्तमपि प्रकरणेऽपि पावइलाहालाह'मित्यादि क्रमवचनात् , यद्वा तत्काले प्रश्नलग्नादिविशिष्य लाभादौ पूर्णार्द्धपादोनपादफलवत्तानिर्णेया तल्लग्नं तु प्रागुक्तम् ॥ ५॥ स्पर्शाच्छकुने सम्मतिमाह
रामचन्द्र धरिलील विलाससीता कष्टसेवौ वनवास ।
हनूउका इकवातजणावेलखमणकाज करी घरिआवे ॥१॥ रामचन्द्रेति । लोकोक्तिरियं तेन चतुरङ्गुलिस्पर्शाक्रमतः फलमिदं न पुनः समविषमाद्यपेक्षया केचित्तु रामचन्द्रोऽङ्गुष्ठस्तत् स्पर्शगमागमपृच्छायां शुभं सीता हलोत्कृष्टाभूः सा चेह खरप्रकृतिस्थैर्यहेतुभूतत्त्वाधिष्ठानात् तर्जनी तस्या स्पर्श कष्टसेवनमित्यशुभं हनुमानभक्तिभाजनं सामध्यागुली तस्याः स्पर्श काचिद्वार्ता कार्येऽप्यवान्तरलभ्या शुभेति शेषः, लक्ष्मणकनिष्ठत्वात् कनिष्ठा तस्याः स्पर्श कार्यसिद्धिरमानिका स्पर्श मृत्युरेवेति पूर्वोक्तानुसारेणैव व्याख्यान्ति । तत्र मृत्युलक्षणं पञ्चमं फलं शोकहेतुस्वादवाच्यमेवोत नोक्तंशास्त्रान्तरे तस्याः स्पर्शानिषेधे नार्थाद्गम्यमिति ॥ ६ ॥
सम्प्रति दिनमानं सद्यः प्रत्यय हेतुमाह--
"Aho Shrutgyanam"